________________
हरिवंशपुराणं।
६०५
द्वापंचाशः सर्गः। राक्षसास्त्रं रिपुक्षिप्तं क्षिप्रं नारायणो रणे । क्षिप्त्वा नारायणास्त्रेण शौरिणां धृतिमाहरत् ॥५४॥ तामसास्त्रं परिक्षिप्तं भास्करास्त्रेण सोऽभिनत् । अश्वग्रीवास्त्रमत्युग्रं चिक्षेपारुणदारुणः ॥५५॥ दिव्यान्यन्यानि चास्त्राणि क्षिप्तानि प्रतिशत्रुणा । प्रतिक्षिप्य निरायामो वासुदेवोऽधितिष्ठते ॥५६॥ तथा व्यर्थप्रयासोसौ क्षितिक्षिप्तशरासनः । रक्षं यक्षसहस्रेण चक्ररत्नमचिंतयत् ॥५७॥ चिंतानंतरमेवात्र सहस्रकिरणप्रभं । चक्रं दिक्चक्रविद्योति मागधस्य करे स्थितं ॥५८॥ नानास्वव्यर्थताक्रुद्धश्चक्रं प्रणम्य मागधः । मागधं प्रतिचिक्षेप क्षिप्रं भूभंगभीषणः ॥५९।। नभस्यागच्छतस्तस्य विच्छायीकृतभास्वतः। यथास्वं चिक्षिपुः सर्वे चक्राण्यन्येऽपि भूभृतः॥६०॥ शाी शक्तिगदाद्यानि हलं समुसलं हली । गदां वृकोदरः पार्थो नानास्त्राण्यस्वपार्थिवः ॥६॥ सेनानी परिषं शक्तिं युधिष्ठिरनृपस्तथा । तस्य तु प्रतिघातार्थमुद्गीर्णाशीसमं ययौ ॥६२। समुद्रविजयाक्षोभ्यप्रभृतिभ्रातरो भृशं । अप्रमत्ता महास्त्राणि प्रतिचक्रं प्रचिक्षिपुः ॥३॥ नेमीशस्त्वधिज्ञातभाविकार्यगतिस्थितिः । चक्रस्याभिमुखश्चक्रे विष्णुनैव सहस्थितिं ॥६४॥ वार्यमाणं तु तच्चक्रमस्त्रचक्रेण भूभृतां । विस्फुरद्विस्फुलिंगौघं शनैरागत्य मित्रवत् ॥६५॥ सह प्रदक्षिणीकृत्य भगवनेमिना हरिं । तत्करे दक्षिणे तस्थौ शंखचक्रांकुशांकिते ॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org