SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। ६०४ द्वापंचाशः सर्गः । तेषां तस्य च संग्रामो यशःसंग्रहकारिणां । अन्योन्याक्षेपि वाक्यानां प्रवृत्तो वार्तसंकथं ॥४२॥ छन्ना तेन कुमाराणां शिरोभीरुधिरारुणैः । चक्रनाराचनिर्मिन्नैः पंकजैरिव भूरभात् ॥४३॥ सारणेन कुमारेण स कालयवनो रुषा । नीतः खड़प्रहारेण कालस्य सदनं चिरात् ॥४४॥ कृष्णेनाभिमुखीभूता मागधस्य सुताः परे । शूरा मृत्युमुखं नीतास्तेऽर्धचंद्रैः शिरश्छिदा ॥४५॥ ततः स्वयं जरासंघः कृष्णस्याभिमुखं रुषा । दधाव धनुरास्फाल्य रथस्थो रयवर्तिनः ॥४६॥ अन्योन्याक्षेपिणोर्युद्धं तयोरुद्धतवीर्ययोः । अस्त्रैः स्वाभाविकैर्दिव्यैरभूदत्यंतभीषणः ॥४७॥ अस्त्रं नागसहस्राणां सृष्टप्रज्वलनप्रभं । माधवस्य वधायासौ क्षिप्रं चिक्षेप मागधः ॥४८॥ अमूढमानसः शौरिनागनाशाय गारुडं । अस्त्रं चिक्षेप तेनाशु ग्रस्तं नागास्त्रमग्रतः ॥४९॥ अस्त्रं संवर्तकं रौद्रं विससर्ज स मागधः । तन्महाश्वसनास्त्रेण माधवोऽपि निराकरोत् ॥५०॥ वायव्यं व्यमुचच्छस्नमस्त्रविन्मगधेश्वरः । अंतरिक्षण वास्त्रेण व्याक्षिपत्तदधोक्षजः ॥५१॥ अग्निसात्करणे सक्तमस्त्रमाग्नेयमुज्वलं । मागधक्षिप्तमाक्षिप्तं वारुणास्त्रेण शौरिणा ॥५२॥ अस्त्रं वैरोचनं मुक्तं मागधंद्रेण रोषिणा । उपेंद्रेणापि तदूरान्माहेंद्रास्त्रेण दारितं ॥५३॥ १ 'उपेंद्रेण च दारितं ' इति ख पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy