________________
हरिवंशपुराण।
द्वापंचाशः सर्गः। स कालयवनः काल इव स्वयमुपागतः। गजं मलयनामानमारूढो युयुधेधिकं ॥२९॥ सहदेव इति ख्यातो द्रुमसेनोद्रुमस्तथा । जलचित्रादिको केतू धनुर्धरमहीधरौ ॥३०॥ स भानुः कांचनरथो दुर्धरो गंधमादनः । सिंहांकश्चित्रमाली च महीपालवृहद्ध्वजौ ॥३१॥ सुवीरादित्यनागाख्यौ सत्यसत्वसुदर्शनौ । धनपालशतानीको महाशुक्रमहावसू ॥३२॥ वीराक्ष्यो गंगदत्तश्च प्रवरः पार्थिवाभिधः । चित्रांगदो वसुगिरिः श्रीमान् सिंहकटिस्फुटः ॥३३॥ मेघनादमहानादौ सिंहनादवसुध्वजौ । वज्रनाभमहाबाहू जितशत्रुपुरंदरौ ॥३४॥ अजिताजितशत्रू च देवानंदशतद्रुतौ । मंदरो हिमवान्नाम्ना तौ विष्णुकेतुमालिनौ ॥३५॥ कर्कोटकषीकेशौ देवदत्तधनंजयौ । सगरस्वर्णबाहू च मद्यवानच्युतोऽपि च ॥३६॥ दुर्जयो दुर्मुखश्चापि तथा वासुकिकंबलौ । त्रिशिरा धारणाभिख्यो माल्यवान् संभवाभिधः ॥३७॥ महापद्मो महानागो महासेनो महाजयः । वासवो वरुणाभिख्यः शतानीकोऽपि भास्करः ॥३८॥ गरुत्मान् वेणुदारी च वासुवेगशशिप्रभौ । वरुणादित्यधर्माणौ विष्णुस्वामी सहस्रदिक् ॥३९॥ केतुमाली महामाली चंद्रदेवो वृहद्वलिः । सहस्ररश्मिरर्चिष्मान् जघ्नो मागधसूनवः ॥४०॥ तपन्मनुजमातंगतुरंगरथसंकटे । स कालयवनो युद्धे निरुद्धो वसुदेवजैः ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org