________________
हरिवंशपुराण ।
६०२
द्वापंचाशः सर्गः ।
अश्वैः कनकपृष्टैर्यो युक्तैर्भाति महारथः । असौ जरत्कुमारस्य मृगकेतोर्विराजते ||१६|| शुक्लः सोमसुतस्यैष सिंहलस्य विराजते । कांबोजैर्वाजिभिर्युक्ता रथोश्वरथभास्वरः ||१७|| अश्वैरारक्त सबलैर्मरुराजस्य राजते । रथः कांचनचित्रांगैः शंशुमाराकृतिध्वजः ॥ १८ ॥ रथः पद्मरथस्यैष पद्माभैस्तुरगैर्युतः । शोभते रणशूरस्य बलानामग्रतः स्थितः ||१९| पारावतीनिभैः पत्रैः सारणस्य त्रिहायनैः । तपनीयच्छदैर्भाति रथोऽसौ पुष्करध्वजः ||२०|| शशलोहितसंकाशैर्वाजिभिः पंचहायनैः । रथो नग्नजितः सूनोर्मेरुदत्तस्य काशते ॥२१॥ वाजिभिः पंचवर्णैर्यो रथो भाति गृहध्वजः । विदूरथकुमारस्य जवनः कलशध्वजः ॥२२॥ सर्ववर्णनिभैरवैर्यादवानां तरस्विनां । न शक्यंते रथान् प्रोक्तुं शतशोथ सहस्रशः ||२३|| अस्माकं नृपवीराणां स्थान्वेत्सि यथायथं । कुमाराणां च सर्वेषां नानाचिहान्महारथान् ||२४|| क्षत्रियैर्बहुभिर्युक्तो नानादेशसमागतैः । शोभते भवतो व्यूहो रिपुसेनाभयंकरः ||२५|| तदाकर्ण्य निजं प्राह सारथिं मगधेश्वरः । यादवान् प्रति शीघ्रं त्वं रथं नोदय सारथे ! ॥ २६ ॥ नोदितेथ रथे तेन लग्नश्छादयितुं नृपेट् । यादवानभितः सर्वान् शरासारैर्निरंतरैः || २७जा जरासंधसुतास्तत्र यादवैः सह कोपिनः । यथायथं रथादिस्था रणक्रीडां प्रचक्रिरे ||२८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org