________________
हरिवंशपुराणं ।
६०१
द्वापंचाशः सर्गः। रथस्थो मागधो युद्धे हंसकं निजमंत्रिणं । अंतिकस्थमिति प्राह यादवानभिर्वाक्ष्य सः ॥३॥ प्रत्येकं नामचिह्नाद्यैर्यदूनां चक्ष्व हंसक । किमन्यैरत्र निहतैरित्युक्ते संजगाविति ॥४॥ फेनपुंजप्रतीकाशैहयैः कांचनदामभिः । रथोर्करथवदृश्यः कृष्णस्य गरुडध्वजः ॥५॥ शुकवर्णसमैरश्वैर्युक्तोऽयं स्वर्णशृंखलैः । अरिष्टनेमिवीरस्य वृषकेतुर्महारथः ॥६॥ कृष्णदक्षिणपार्श्वेत्वरिष्टवर्णैस्तुरंगमैः । रथस्तालध्वजो राजन् बलदेवम्य राजते ॥७॥ कृष्णवर्णैर्हयैर्युक्तो भ्राजतेऽयं महारथः । अनीकाधिपतेरत्र कपिकेतूपलक्षितः ॥८॥ नीलकेसरबालात्रैहयैर्हेमपरिष्कृतैः । रथो युधिष्ठिरस्यायं पांडवस्य विराजते ॥९॥ शशांकविशदैरश्वैर्यातरिश्वजवैवृतः । गजध्वजयुतो भाति सव्यसाचिरथो महान् ॥१०॥ नीलोत्पलनिभैरेष युक्तो युयुभिरीक्ष्यते । रथो वृकोदरस्यापि मणिकांचनभूषणः ॥११॥ शोणवर्णैर्हयैर्भाति समुद्रविजयस्य हि । मध्ये यादवसैन्यानां महासिंहध्वजो रथः ॥१२॥ अङ्करस्य कुमारस्य रथोसौ कदलीध्वजः । सबलैर्वाजिभि ति रुक्मविद्रुमभास्वरः ॥१३॥ हयैस्तित्तिरकल्माषैः सत्यकस्य महारथः । महानेमिकुमारस्य कौमुदैर्वा जिभी रथः ॥१४॥ चामीकरवृहदंडपताकाध्वजभूषितः । शुकदंडनिभैरश्वैर्भोजस्यैष महारथः ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org