________________
हरिवंशपुराणं ।
एकपंचाशत्तमः सर्गः। निपात्य शरवर्षेण रुक्मिणं चिरयोधनं । रिपुराजसहस्राणि नेमिश्विक्षेप संयुगे ॥२६॥ समुद्रविजयाद्याश्च भ्रातरस्तत्सुतास्तथा । यथायथं रणे प्राप्ता निन्युमृत्युमुखं रिपून् ॥२७॥ रामकृष्णसुतैः संख्ये निःसंख्यशरवर्षिभिः । यथेष्ट क्रीडितं मेधैः पर्वतेष्विव वैरिषु ॥२८॥ पांडवानां सपुत्राणां धृतराष्ट्रसुतैः सह । कदनं यद्वभूवात्र तत्कः कथयितुं क्षमः ॥२९॥ युधिष्ठिरोऽत्र शल्येन भीमो दुश्शासनेन तु । सहदेवः शकुनिना झुलूको नकुलेन हि ॥३०॥ दुर्योधनार्जुनौ योद्धं लग्नौ युद्धं ततस्तयोः । बभूव भूतवित्रासी शरसंधानदक्षयोः ॥३१॥ निहिताः पांडवैः केचिद् धृतराष्ट्रशरीरजाः । रणे दुर्योधनाद्यास्तु केचिज्जीवन्मृताः कृताः ॥३२॥ आकर्णाकृष्टचापौधैः कर्णोऽभिमुखमागतान् । योधान् बिभेद संग्रामे कृष्णपक्षाननेकशः ॥३३॥ द्वंद्वयुद्धे तदा जाते बहुभूतक्षयावहे । सेनापत्योरभूद्रौदं कदनं विविधायुधैः ॥३४॥ हिरण्यनाभवीरेण स सप्तभिः शरैः शतैः । नवत्या सप्तविंशत्या विद्धोऽनावृष्टिराहवे ॥३५॥ प्रजघान शतेनासौ सहस्रेण च पत्रिणां । अनावृष्टिर्हिरण्याभं कुशलः प्रतिकर्मणि ॥३६।। यादवस्य ध्वजं तुंगं चिच्छेद रुधिरात्मजः। सोऽपि चास्य बिभेदाशु चापं छत्रं च सारथिं ॥३७॥ धनुरन्यदुपादाय शरवर्ष ववर्ष सः। परिषं तु यदुःक्षिप्त्वा रथं शत्रोरपातयत् ॥३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org