________________
हरिवंशपुराणं।
। ५९८
. एकपंचाशत्तमः सर्गः । राजा हिरण्यनाभस्तु मागधेन महाबलः । सेनापतिपदे शीघ्रमभिषिक्तस्तदा मुदा ॥१३॥ युद्धे मेयस्तथा शंखा नेदुधीरं बलद्वये । चतुरंगबलं योद्धमाससाद परस्परं ॥१४॥ अन्योन्याहानपूर्व ते योद्धं लग्ना यथायथं । राजानं क्रोधसंभारभ्रूभंगविषमाननाः ॥१५॥ गजा गजैः समालनास्तुरंगास्तुरगैः सह । रथा रथैः समं योद्धं पत्तयः पत्तिमिः सह ॥१६॥ ज्यारवैरथनिर्गजानां गर्जिनेन च । भटानां सिंहनादैश्च दंलंतीव दिशो दश ॥१७॥ ततः परबलं दृष्ट्वा प्रबलं स्वबलाशनं । नेमिपार्थबलाधीशा वृषहस्तिकपिध्वजाः॥१८॥ ताक्षकेतुमनोभिज्ञाः स्वयं योद्धं समुद्यताः । ऊरीकृत्य सुसन्नाहाश्चक्रव्यूहस्य भेदनं ॥१९॥ दध्मौ नेमीश्वरः शंखं शाकं शत्रुभयावहं । देवदत्तं पृथापुत्रः सेनानीश्च बलाहकः ॥२०॥ शंखानां निनदं श्रुत्वा ततो व्याप्तदिगंतरं । स्वसैन्येऽभून्महोत्साहः परसैन्ये महाभयं ॥२१॥ मध्यं बिभेद सेनानीर्नेमिर्दक्षिणतः क्षणात् । अपरोत्तरदिग्भागं चक्रव्यूहस्य पांडवः ॥२२॥ सेनानी परसेनान्या नेमिनाथोऽपि रुक्मिणा । पार्थो दुर्योधनेनासौ स धैर्येण पुरस्कृतः ॥२३॥ महायुद्धमभूत्तस्य ततस्तेषां यथायथ । संवैधयलयुक्तानी पंचायुधविवर्षिणां ॥२४॥ नारदोऽन्सरसां संधैदृरेण नभसि स्थितः । मुंचन पुष्पाणि तुष्टात्मा ननते कलहप्रियः ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org