________________
हरिवंशपुराणं ।
. ५९७
एकपंचाशत्तमः सर्गः। एकपंचाशत्तमः सर्गः। अत्रांतरे सहप्राप्ताः समुद्रविजयं नृपाः । विद्याधरसमस्तास्ते वसुदेवहितैषिणः ॥१॥ श्वसुरोऽशनिवेगोसौ हरिग्रीवो वराहकः । सिंहदंष्ट्रः खगेंद्रश्च विद्युद्वेगो महोद्यमः ॥२॥ तथा मानसवेगश्च विद्युदंष्ट्रः खगाधिपः । राजा पिंगलगांधारो नारसिंहो नरेश्वरः ॥३॥ इत्याद्याश्चार्यमातंगा वासुदेवार्थसिद्धये । वसुदेवं पुरस्कृत्य समुद्रविजयं श्रिताः ॥४॥ तान्सन्मान्य यथायोग्यं समुद्रविजयादयः । सिद्धार्था वयमद्येति प्रहृष्टमनसो जगुः ॥५॥ वसुदेवरिपूणां ते खगानां क्षोभमूचिरे । जरासंधार्थसिद्धयर्थ तेषामागमनं तथा ॥६॥ तच्छ्रुत्वा यादवाः सर्वे सन्मंत्र्यानकदुंदुभि । प्रद्युम्नशंबसंयुक्तं सपुत्रं तैरमामुचन् ॥७॥ जिनकेशवरामादीन् परिश्वज्य स वेगवान् । पुत्रनप्तृखगैः साकं खचराचलमाययौ ॥८॥ सिंहविद्यारथं दिव्यं दिव्यास्त्रपरिपूरितं । धनदेवसमानीतमारुरोह हलायुधः ॥९॥ गारुडं रथमारूढस्तथागरुडकेतनः । नानाप्रहरणैर्दिव्यैः परिपूर्ण जयावहः ॥१०॥ मातल्यधिष्ठितं सास्त्रं सुत्रामप्रहितं रथं । नेमीश्वरः समारूढो यदूनामर्थऽसिद्धये ॥११॥ सेनानां नायकं शूरमनावृष्टिं कपिध्वजं । अभ्यषिचन्नृपाः सर्वे समुद्रविजयादयः ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.