________________
हरिवंश पुराणं ।
५९४
पंचाशत्तमः सर्गः ।
स्वामिकार्य परित्यज्य बंधुकार्यमसांप्रतं । अप्रशस्यं च हास्यं च संमुखे सांप्रतं रणे ॥९८॥ एतावदत्र कार्यं तु युद्धे भ्रातृवशाद्यते । योद्धव्यमन्ययोधैर्हि स्वामिकार्यकृता मया ॥९९॥ निवृत्ते युधि जीवामो यदि देववशाद्वयं । भविता निश्चयोऽस्माकमंच भ्रातृसमागमः ॥१००॥ प्रयाहि भ्रातृबंधूनामेतदेव निवेद्यतां । इत्युक्त्वा पूजिता गत्वा कुंती सर्वं तथाकरोत् ॥ १०१ ॥ जरासंघबले तत्र समभूभागवर्तिनि । चक्रव्यूह द्विषां नित्यै रचितः कुशलैर्नृपैः ॥१०२॥ चक्रस्यारसहस्रे हि राजैकैकः समास्थितः । तस्य राजसहस्रस्य करिणां तु शतं शतं ॥ १०३ ॥ एकैकस्य नरेंद्रस्य द्विसहस्ररथाः स्थिताः । वाजिपंचसहस्राणि भटानां तानि षोडश ॥ १०४ ॥ अतश्चतुर्थभागेन संयुताः सपदि स्थिताः । नरेंद्राः षट् सहस्राणि निविष्टास्तत्र नेमिषु ॥ १०५॥ मध्यत्वं च समासाद्य सुस्थितो मागधः स्वयं । राजपंचसहस्रैः स श्रीमान् कर्णपुरस्सरैः ॥ १०६ ॥ तस्यैव मध्यभागे तु सैन्यं गांधारसैधवं । दुर्योधनसमेतं तु धार्तराष्ट्रशतं स्थितं ||१०७|| मध्ये च मध्यदेशास्तु स्थितास्तत्र नरेश्वराः । पूर्वभागे स्थितास्तस्य शेषा नृपगणास्तथा ।। १०८ ।। कुलमानघरा धीरा नरेशा बलशालिनः । पंचाशत्सकलव्यूहा नेभिसंधिष्विवस्थिताः || १०९ ॥ अंतरांतरसंस्थास्तु गुल्मैर्गुल्मैर्नरोत्तमैः । व्यूहस्य कायतश्चापि नानाव्यूहैर्नृपाः स्थिताः ||११० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org