________________
हरिवंशपुराणं।
५९३ .
पंचाशत्तमः सर्गः। वेणुदारी च विक्रांतो राजानोऽर्धरथा इमे । विचित्रयोधिनो धीराः संग्रामेष्वपराङ्मुखाः ॥८५॥ अतः परं नृपाः सर्वे कुलमानयशोधनाः । रथिनः प्रथिताश्चामी यथायोग्यं बलद्वये ।।८६।। अर्णवोपमयोस्तत्र तदाभ्यर्णनिवेशयोः । सेनयोस्तूर्णमागत्य कर्णस्याभ्यर्णमाकुलाः ॥८७।। कुंती निष्णातसंबंधतनयानुमता मता । कानीनस्नेहसंभारपरायत्तशरीरिका ॥८८॥ कंठलग्ना रुदंती तं प्रतिबोधयति स्म सा । मातापुत्रस्वसंबंधमादिमध्यावसानतः ॥८९॥ ततः कंबलवृत्तांतः कुरुवंशावतारवित् । कुंती पांडुसुतत्वं तु निश्चिकायात्मनस्तदा ॥९॥ सांतःपुरेण कर्णेन निर्णीतनिजबंधुना । पूजिताग्रात्मजं कुंती जगाद जनितादरा ॥११॥ उत्तिष्ठ पुत्र गच्छामो यत्र ते भ्रातरोऽखिलाः । तिष्ठत्युत्कंठिताश्चान्ये वैकुंठप्रमुखा निजाः।।९२॥ कुरूणामीश्वरः पुत्र त्वमेव भुवि सांप्रतं । कृष्णस्य रामभद्रस्य संप्रति प्राणवत् प्रियः ॥९३॥ त्वं राजावरजाग्रस्ते छत्रधारी युधिष्ठिरः। भीमश्वामरधारी तु मंत्रिमुख्यो धनंजयः ॥९४॥ नकुलः सहदेवेन प्रतीहारः सहस्फुटं । अहं तु जननी नीत्या नित्यं तव हितोद्यता ॥९५ । इति मातृवचः श्रुत्वा भ्रातृस्नेहवशोऽपि सः । जरासंधोपकारैस्तैः स्वामिकार्यधरोऽवदत् ॥१६॥ पितरौ भ्रातरौ लोके बांधवाश्च सुदुर्लभाः । यद्यस्त्येवं तथाप्यत्र प्रस्तावे समुपस्थिते ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org