SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ५९२ हरिवंशपुराणं। पंचाशत्तमः सर्गः। बर्वरा यमना भीरा कांबोजा द्रविडा नपाः । अन्ये च हवः सूराः शौरिपक्षमुपाश्रिताः ॥७३॥ अक्षौहिण्यो वरगुणा जरासंधमुपागताः । चक्ररत्नप्रभावेन वशीभावितभारतं ॥७४।। अक्षौहिणीप्रमाणं तु सप्रमागमुदीरितं । वाजिवारणपत्तीनां रथानां गणनायुतं ॥७५॥ नवहस्तिसहस्राण नवलक्षा रथा मताः । नव कोट्यस्तुरंगास्तु शतकोट्यो नरा नव ॥७६॥ यदुष्वतिरथो नेमिस्तथैव बलकेशवौ । अतिक्रम्य स्थितान् सर्वान भारतेऽतिरथांस्तु ते ।।७७॥ समुद्रविजयो राजा वसुदेवो युधिष्ठिरः । भीमकर्णार्जुनो रुक्मी रौक्मणेयश्च सत्यकः ॥७८।। धृष्टद्युम्नोप्यनावृष्टिः शल्यो भूरिश्रवा नृपः । राजा हिरण्यनाभश्च सहदेवश्च सारणः ॥७९।। शस्त्रशास्त्रार्थनिपुणाः परांमुखदयापराः । महावीयो महाधर्या राजानोऽमी महारथाः ॥८०॥ अक्षोभ्यपूर्वकाश्चाष्टौ शंबो भ.जो विदूरथः। द्रुपदः सिंहराजोऽपि शल्यो वज्रः सुयोधनः ॥८॥ पांडः परथश्चापि कपिलो भगदत्तकः । क्षेमधूत इमे सर्वे समाः समरथा रणे ॥८२॥ महानेमिधराक्रूरनिषधोल्मुकदुर्मुखाः । कृतवर्या वराटाख्यश्चारुकृष्णश्च यादवाः ॥८३॥ शकुनियवनो भानुर्दुश्शासनशिखंडिनौ । वाल्हीकसोमदत्तश्च देवशर्मा वकस्तथा ॥८४॥ १ नवशतकोट्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy