________________
हरिवंशपुराणं ।
५९१
पंचाशत्तमः सर्गः ।
तीर्थ देवावताराख्यं ततः प्रभृति भूतले । भूतं भूतसहस्राणां पापोपशमकारणं || ६० || दूतो गत्वा जरासंघ संधानं प्रत्यसन्मुखं । प्रत्यवोधयदेकांते प्रतिबोधनपंडितः ॥ ६१ ॥ लोहजंघव चोत्यंत प्रसन्नः प्रतिपन्नवान् । स संधानं जरासंधः षण्मासावधिकं ततः ॥६२॥ दूतः पूजां नृपात्प्राप्य स प्राप्य द्वारिकां ततः । समुद्रविजयाद्यर्थं निवेद्य स्थितवान् कृती ॥ ६३ ॥ साम्येनैव ततो वर्षे सामग्री प्रत्यपेक्षया । पूर्णे पूर्णमहासंघौ महासामंतसन्नतिः ||६४॥ जरासंधोऽत्र संप्राप्तः सैन्यसागररुद्ध दिक् । कुरुक्षेत्रं महाक्षत्रप्रधानप्रधनोचितं ||६५|| पूर्वमभ्येत्य तत्रैव केशवोऽपरसागरः । तस्थावापूर्यमाणः सन् वाहिनीनिवहैर्निजैः ॥६६॥ तत्रापाच्या नृपाः केचिदुदीच्याश्चापरांतिकाः । संबंधिनः सृता विष्णुं सकलैः स्वबलैर्युताः॥६७॥ दशार्हा सांत्वना भोजाः पांडवाश्चापि बांधवाः । अन्ये च नृपशार्दूलाः प्रसिद्धा हरये हिताः॥ ६८॥ अक्षौहिणीपतिस्तत्र समुद्रविजयो नृपः । उग्रसेनोग्रणीः पुंसा तथैवाक्षौहिणीप्रभुः ||६९|| मेरुरक्षौहिणीस्वामी श्रीमानिक्ष्वाकुवंशजः । अक्षौहिण्यर्धनाथस्तु राष्ट्रवर्धनभूपतिः ||७०|| तथाक्षौहिणीनाथः सिंहलानामधीश्ररः राजा पद्मरथश्चापि तत्समानबलो बली ॥७१॥ दायादः शकुनेर्वीरः चारुदचः पराक्रमी । अक्षौहिणीचतुर्थांशपतिः कृष्णहितेरितः ॥ ७२ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org