________________
हरिवंशपुराणं ।
५९०
पंचाशत्तमः सर्गः । आयात्यासन्नकालोऽसौ समस्तबलसंयुतः । रणातिथ्यं ददामोsस्मै संग्रामोत्कंठिता वयं ||४७|| इत्युक्त्वा सविसृष्टस्तै रूक्षवाग् वज्रताडितः । गत्वा स्वस्वामिने पूर्वी निवेद्य कृतितां गतः ॥ ४८ ॥ विमलामलशार्दूला समुद्रविजयं ततः । मंत्रिणो मंत्रनिपुणा संमत्र्येति व्यजिज्ञपन् ॥४९॥ शांतये सामदंडस्य स्यात्स्वपक्षविपक्षयोः । मागधेन समं साम तस्माद्राजन् प्रयुज्महे ॥५०॥ ज्ञातिवर्गः समस्तोयं कुमारनिकरादिकः । अपायबहुले युद्धे संशयः कुशलं प्रति ॥ ५१ ॥ संति योधा यथास्माकममोघशरवर्षिणः । साधनो मागधस्यापि तथैव भुवि विश्रुतः ॥ ५२॥ तदेकस्यापि हि ज्ञातेरपायो रणमूर्धनि । यथा शत्रोस्तथास्माकमतिदुःखकरो भवेत् ॥ ५३ ॥ अतो विश्वजनीनार्थ साम तावत्प्रशस्यते । तदर्थ प्रेष्यतां दूतो माधवांतिकमस्मयात् ॥५४॥ मागधः साम्यमानोऽपि साम्ना यदि न साम्यति । तदा तदुचितं कुर्मः को दोषः सामयोजने ॥ ५५ ॥ इति मंत्रिभिरामंत्रय राजा विज्ञापितस्तदा । को दोष इति संमंत्रय लोहजंघमजीगमत् ॥ ५६ ॥ स दक्षः शौर्यसंपन्नः कुमारो नीतिलोचनः । जगाम निजसैन्येन जरासंधन संघये || ५७|| पूर्वमालवमासाद्य कृतसैन्यनिवेशनः । प्राप्तौ कांतारभिक्षार्थं कांतारे सार्थयोगिनौ ॥५८॥ मासोपवासिनौ दृष्ट्वा तिलकानंदनंदकौ । प्रतिगृह्यान्नपानाद्यैः पंचाश्चर्याणि लब्धवान् ।। ५९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org