SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ हरिवंश पुराणं । पंचाशत्तमः सर्गः । चतुरंगबलेशानां शासनानतिलंधिनां । दूतानजीगमत्क्षिप्रमायांत्विति पराक्रमी ||३४|| दूतदर्शनमात्रेण कर्णदुर्योधनादयः । ते संप्राप्ता जरासंधं सत्यसंधाहितैषिणः ॥३५॥ नृपैस्तैरनुयातोसौ तनयाद्यैर्महाबलैः । निमित्तैर्वार्यमाणोऽपि प्रतस्थेऽरिजिगीषया ॥ ३६ ॥ सदूतोऽजितसेनोऽपि स्वामिकार्यहितः पुरीं । सुद्वारां द्वारिकां प्राप सुकृतीव दिवं कृती ||३७|| प्रविश्य नगरीं रम्यामनेकाद्भुतसंकुलां । दृश्यमानो जनैः पौरैराससाद नृपालयं ||३८|| अशेषयादवाकीर्णा भोजपांडवसंयुतां । सभां स प्राविशद्विष्णोः प्रतीहारनिवेदितः ||३९|| कृतप्रणतिरध्यास्य दापितासनमग्रतः । वक्तुं प्रारभत स्वामिबलला भावलेपतः ||४०|| आकर्ण्यतां समाधाय मनः सकलयादवैः । यथा शास्ति महाराजो मागधः परमेश्वरः ||४१|| यूयमेव स्फुटं ब्रूत किमनिष्टं कृतं मया । युष्माकं येन साशंका प्रविष्टाः सागरोदरं ॥ ४२ ॥ सापराधता यूयं यद्यप्युद्भूतभीतयः । दुर्ग श्रितास्तथाप्यस्मन्नभयं नमतैत्य मां ॥४३॥ अथ दुर्गबलाधूयं तिष्ठतानतिवर्जिताः । एषोऽहं सागरं पीत्वा बलैः कुर्वे कदर्थनां ॥ ४४ ॥ अज्ञातावस्थितीनां च कालदेशबलं बलं । अधुना ज्ञातवार्तानां कालदेशबलं कुतः ॥४५॥ चोरवचः श्रुत्वा कुपिता निखिला नृपाः । कृष्णादयो जगुस्तत्र भृकुटीकुटिलाननाः ॥४६॥ Jain Education International ५८९ For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy