________________
हरिवंशपुराणं ।
पंचाशत्तमः सर्गः ।।
यादवान्वयसंभूताः स्वर्भुवामपि दुर्जयां श्रीने मिर्वासुदेवश्च बलदेवश्च ते त्रयः ॥२१॥ स्वर्गावतारकाले यः पूजितो वसुवृष्टिभिः | सुरेंद्रैरभिषिक्तश्च जिनो जन्मनि मंदिरे ॥ २२ ॥ स कथं युधि जीयेत भवतामररक्षितः । युक्तेनापि समस्तेन राजकेन भुवस्तले ||२३|| बलकेशवयोश्चापि सामर्थ्यं भवता न किं । तच्छ्रुतं बहुयुद्धेषु शिशुपालवधादिषु ||२४|| यत्पक्षाः पाडवा थंडाः प्रतापार्जितकीर्तयः । विद्याधराश्च बहवो वैवाहिकपथस्थिताः ||२५|| कोट्यो यत्र कुमाराणां प्रसिद्धा रणशालिनां । स्वामिन्नर्धचतुर्थास्ते जीयंते यादवाः कथं ॥ २६ ॥ अंतस्थानप्यषां पत्युस्तान् कदाचिदपेक्षया । मद्भीता इति मामस्था नयमार्गविदो यदून् ||२७|| दैवकालबलोपेता देवताकृतरक्षणाः । सुप्तव्याघ्रोपमा देव ! तावत्तिष्ठंतु यादवाः ||२८|| आस्महे वयमप्यत्र कालयापनया प्रभो ! | स्वाज्ञस्वपरकालानां याप्यावस्था हि शस्यते ||२९|| अनयावस्थाssसीने त्वयि तेषां प्रकोपिनां । द्विषां प्रतिविधानाय प्रतिपद्यस्व पौरुषं ||३०|| इत्यादिमंत्रिभिः पथ्यं तथ्यं विज्ञापितं प्रभुः । नाग्रहीत्क्षयकाले हि ग्राही ग्राहं न मुंचति ॥ ३१ ॥ सचिवानपकर्ण्याशु प्रकोपाय नृपो द्विषां । दूतं सोजितसेनाख्यं प्रहिणोद्वारिकां पुरीं ||३२|| स प्राच्यानां प्रतीच्यानामपाच्यानां च भूभृतां । उदीच्यानामगस्थानां मध्यदेशाधिवासिनां ॥३३॥
Jain Education International
५८८
For Private & Personal Use Only
www.jainelibrary.org