________________
हरिवंशपुराणं।
.५८७
पंचाशत्तमः सर्गः। ततो गणभृदाचख्यावनयोनरमुख्ययोः । वृत्तं श्रेणिकभूपाय शुश्रूषावहितात्मने ॥८॥ बुद्धवार्तो जरासंधः संधि प्रति पराङ्मुखः । प्रमुख्यमंत्रिभिः सत्रा मंत्रमारभ्यतेस्म सः॥९॥ उपेक्षिताः कुतो हेतो मंत्रिणो भरतारयः । वाधौ प्रवृद्धसंतानास्तरंगा इव भंगुराः ॥१०॥ मंत्रिणो हि प्रभाश्चक्षुर्निमलं चारचक्षुषः । ते कथं स्वामिनं स्वं च वंचयंति पुरः स्थिताः ॥११॥ यदि नाम महैश्वर्यप्रमत्तेन महाद्विषः । नालक्ष्यंत प्रतन्वाना युष्माभिस्तु कथं तु ते ॥१२॥ नोच्छिोरन्महोद्योगैर्जातमात्रा यदि द्विषः । दुःखयंति दुरंतास्ते व्याधयः कुपिता इव ॥१३॥ कंसं जामातरं हत्वा भ्रातरं चापराजितं । प्रविष्टाः शरणं दुष्टा यादवा यादसां प्रति ॥१४॥ यद्यप्यनवगाह्याब्धिगंभीरोदरमाश्रिताः । उपायानायनिःकृष्टा वध्यास्ते मे झषा यथा॥१५॥ द्वारिकावधि तिष्ठतः संतिष्ठते कुतोऽभयाः। तावदेव हि ते यावन मे कोपानलो ज्वलेत ॥१६॥ इयंत कालमज्ञाता ज्ञातिभिः सह सुस्थिताः । ज्ञातानामधुना तेषां सुस्थितिमद्विषां कुतः॥१७॥ सामश्चोपप्रदानस्य न ते स्थानं कृतागसः। ततो युष्माभिरेकांतात्स्थाप्यतां भेददंडयोः ॥१८॥ दंडोपायप्रधानं तं स्वामिनं मंत्रिणस्तथा । प्रशाम्य प्रणताः प्रोचुः प्रसादपदवीस्थिताः ॥१९॥ आकर्ण्यतां यथा नाथ विदंतोऽपि वयं द्विषां । द्वारिकायां महावृद्धिःकालयापनया स्थिता ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org