________________
हरिवंशपुराणं ।
५९५
पंचारक्षमः सर्गः। चक्रव्यूहस्तदा दक्षरचितोऽसौ व्यराजत । स्वसाधनमनस्तोषी परसाधनभीतिकृत् ॥११॥ चक्रव्यूह विदित्वा तं वसुदेवो विनिर्मितं । चकार गरुडव्यूहं तद्भेदाय विशारदः ॥११२॥ अर्धकोटीकुमाराणां मुख्ये तस्य महात्मनां । स्थापिता रणशूराणां नानाशस्त्राबधारिणां ॥११३।। बली हलधरस्तत्र शाङ्गपाणिश्च मूर्धनि । स्थितावतिरथौ वीरौ स्थैयान्निर्जितभूधरौ ॥११४॥ अक्रूरः कुमुदो वीरः सारणो विजयो जयः । पद्मो जरत्कुमारोऽपि सुमुखोऽपि च दुर्मुखः ॥११५॥ मूनुर्मदनवेगाया दृढमुष्टिमहारथः । विदूरथोप्यनावृष्टिर्वसुदेवस्य तेऽगजाः ॥११६॥ रथरक्षान्वितो रामकृष्णयोः पृष्टरक्षिणः । रथकोव्या समेतस्तु पृष्टभोजः प्रतिष्ठितः ॥११७॥ पृष्टरक्षा नृपास्तस्य भोजस्य नृपतेस्ततः । धारणः सागरश्चान्ये रणशौंडा व्यवस्थिताः ॥११८॥ दक्षिणं पक्षमाश्रित्य सुतैः साकं महारथैः । समुद्रविजयोऽतिष्ठद्बलेन महता वृतः ॥११९।। तत्पक्षरक्षणे दक्षाः कुमारा रिपुमारणाः । सत्यनेमिनहानेमिदृढनमिः सुनेमिना ॥२०॥ नमिमहारथश्चापि जयसेनमहीजयौ । तेजःसेनो जयसेनो नयो मेघो महाद्युतिः ॥१२१॥ दशाहश्चिापि विख्याताः शतशोन्ये च भूभृतः । रथकोटी चतुर्भागसहिताः समवस्थिताः ॥१२२॥ वामपक्षमुपाश्रित्य रामस्य तनयाः स्थिताः । पांडवाश्च महात्मनः पंडिता युद्धकर्मणि ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org