________________
हरिवंशपुराणं ।
४०४
एकत्रिंशः सर्गः । न रागो न च विद्वेषो न मोहो न च शून्यता । मुनेरिव ममामीषु जातोपेक्षा कुतोऽप्यहो ॥३७॥ यद्यमीभ्यः परः कोऽपि विधिना मे विधिप्सितः । वरस्तं दर्शयत्वद्य विधिरेव जगद्गुरुः ॥३८॥ तद्वचोऽनंतरं कन्या शुश्राव पणवध्वनि । श्रव्यं श्रवणमार्गेण गत्वा चेतोऽतिकर्षिणं ॥ ३९ ॥ इतः पश्य वरारोहे ! त्वन्मनोहरणक्षमं । राजहंसमिति स्पष्टं बभाण पणवः स हि ॥ ४० ॥ परावृत्य ततः कन्या पश्यंती सा व्यलोकत । राजलक्षणसंयुक्तं वसुदेवं वसूपमं ॥४१॥ अन्योन्यदृष्टिसंपातनिशातशरसंपदा । मनो मनसिजश्चके ततो जर्जरितं तयोः ॥ ४२ ॥ आसाद्य सा ततस्तस्य भूषणस्वनहारिणी । कंठे कंठगुणं चक्रे स्तनचक्रेण सैनता ॥ ४३ ।। मंचस्थस्योपकंठेऽस्य समासीना व्यराजत । रोहिणी हारिणी तारा रोहिणीव कलावतः ॥४४॥ नवसंगमसंजातसाध्वसेन सकंपना । कन्या सा स्वांगसंगेन तस्यांगसुखमाहरत् ।। ४५ ॥ तं स्वयंवरमालोक्य केचिदुचुरिमं नृपाः । जातोनुरूपयोर्योगो रत्नकांचनयोरिव ।। ४६ ॥ अहो नैपुण्यमेतस्याः कन्याया यदयं नृपः । कोऽपि गूढकुलः श्रीमान् प्रधानपुरुषो वृतः ॥४७॥ मात्सर्योपहतास्त्वन्य जगुः पाणविकं वरं । कुर्वत्या पश्यतात्यंतमन्यायः कन्यया कृतः।। ४८॥ पराभूतिमिमां राज्ञां नैव युक्तमुपेक्षितुं । सर्वदातिप्रसंगः स्यादेवं सति महीतले ॥४९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org