________________
हरिवंशपुसणं।
एकत्रिंशः सर्गः। कुलीनानां समाजेऽस्मिन् परस्यावसरोऽस्य कः । वक्तु वा वलुकामश्चेत्कुलीनः कुलमात्मनः॥५०॥ न चेदेवं करोत्येष कोऽपि नीचान्वयोद्भवः । कुड्यतां राजपुत्रस्य कन्याप्यस्त्विह कस्यचित् ॥५१॥ वसुदेवस्ततो धीरः प्रोवाच क्षुभितान् नृपान् । श्रूयतां क्षत्रियैदृप्तैः साधुभिश्च वचो मम ॥५२॥ स्वयंवरगता कन्या वृणीते रुचिरं वरं । कुलीनमकुलीनं वा न क्रमोऽस्ति स्वयंवरे ।। ५३ ॥ अक्षांतिस्तत्र नो युक्ता पितुर्धातुर्निजस्य वा । स्वयंवरगतिज्ञस्य परस्येह च कस्यचित् ।। ५४ ॥ कश्चिन्महाकुलीनोऽपि दुर्भगः सुभगोऽपरः । कुलसौभाग्ययोर्नेह प्रतिबंधोऽस्ति कश्चन ॥५५॥ तदत्र यदि सोभाग्यमविज्ञातस्य मेऽनया। अभिव्यक्तं न वक्तव्यं भवद्भिरिह किंचन ॥५६॥ अथ पौरुषदर्पण कश्चिदत्र न शाम्यति । शमयामि तमाकर्णकृष्टमुक्तैः शिलीमुखैः ॥ ५७ ॥ तच्छ्रुत्वाऽऽशु जरासंधः क्रुद्धः प्राह नृपान् नृपाः । गृह्यतामयमुद्वृत्ता रुधिरश्च सुपुत्रकः ॥५८॥ क्षुभिताः पूर्वमेवाऽऽसन् द्विगुणं चक्रिवाक्यतः । खलप्रकृतयो भूपाः सन्नद्धाः योद्धुमुद्यताः ॥५९॥ साधुप्रकृतयः केचित्तत्र क्षत्रियपुंगवाः । तस्थुः पापनिवृत्तेच्छाः पृथक् स्वबलसंगताः ॥६०॥ पक्षास्तु रुधिरस्यैके प्रतिपक्षबिभित्सया । सन्नह्य सहसा प्राप्ताः रुधिरारुणवीक्षणाः ॥ ६१ ॥ रथं हिरण्यनाभः स्वं तस्थावारोप्य रोहिणीं । समस्तबलसंयुक्तो रुधिरोऽपि वरं वरं ॥६२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org