________________
हरिवंशपुराणं।
एकत्रिंशः सर्गः । लब्धधीः साह शौर्यादीन् पश्य सौर्य पूराधिपान । मालामारोपयामीषामेकस्य रुचितस्य ते ॥२५॥ इत्युक्त तेषु चेतोऽस्या बभार गुरुगौरवं । ततोऽदर्शयदेषास्यै पांडु विदुरमप्यतः ॥ २६ ॥ दमघोष यशोघोष दत्तवक्त्रं सुविक्रमं । शूल्यं शल्यमिवारीणां तथ्यं शत्रुजयं नृपं ॥२७॥ चंद्राभं चंद्रवत्कांतं मुख्यं कालमुखं ततः । पौंडूं च पुंडरीकाक्षं मत्स्यं मात्सर्यवर्जितं ॥ २८ ॥ संजयं च जये सक्तं सोमदत्तं नृपोत्तमं । तत्पुत्रं भ्रातृभिर्युक्तं भूरिश्रवसमाश्रयं ॥ २९॥ सुनुनांशुमताऽत्यंत कपिलं विपुलक्षणं । तथा पद्मरथं भूपं सोमकं सोमसौम्यकं ॥ ३० ॥ देवकं देवनाथाभं श्रीदेवं श्रीवधूश्रितं । प्रदर्य तान् नृपानित्थं वंशस्थानादिशंसिनी ॥ ३१ ॥ अन्यानपि च कन्यायै धात्री सान्यायविजगौ । एतावंतो नृपाबाले मुख्याः किमिदमास्यते ॥३२॥ कुरु कन्ये गुणं कंठे चित्तस्थस्येह कस्यचित् । त्वत्सौभाग्यगुणाकृष्टराजकस्यास्य संनिधौ ॥३३॥ त्वं प्रकाशय सौभाग्य कस्यचिचित्तहारिणः । योग्यभर्तृपरिप्राप्तिचित्तचिंतास्तनिद्रयोः ॥ ३४॥
वृतयोग्यवरा पित्रोर्मुग्धे कुरु सुवासिकां । एवमुक्ताऽवदत्कन्यां साधु मातरुदीरितं । किंतु त्वदर्शितेष्वेषु न मनो रज्यते कचित् ।। ३५ ॥ दर्शनानंतरं यत्र स्नेहोऽभिव्यज्यते हृदि । पौनरुक्यं भवेद्वाच्यं तत्राप्यत्राप्यनर्थता ॥३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org