SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । एकोनपंचाशः सर्गः । क च परघातजो नरकहेतुरधर्मकलिः कुकविविकल्पितः खलकलौ खलु धर्मतया ||३८|| प्रकटितलोकपालचरिताः खलु लोकभयात्तनुभृदनुग्रहं विदधतः परिरक्षणतः । समहिषमेषघातमधिदैवतमत्र नृपाः विदधति यत्र तत्र कुजनेषु तु कै कथा ||३९| कथमपि कार्यसिद्धिमुपलभ्य हि दैववशात्प्रतिनिधिदेवताकृतमिति प्रतिपद्य नरः । निजवपुरायुधैः सुविनिकृत्य ददद्रधिरं परतनुकर्तने भवति वा स कथं सघृणः ||४०|| विपुलसपर्यया प्रणतलोकसुतोषितया विगतविपर्ययत्वगुणया जगतीष्टवरः । यदि हि वीर्यते वरदा वरदेवतया न भवति कचिदप्यभिमतेन जनो विकलः ॥४१॥ प्रतिनिधिराश्रयश्च सधनस्य परस्य कृतिः प्रतिदिनदीपतैलवलिपुष्पविधिः परतः । अथ च वरं परस्य नियतं प्रददाति वृतं जडजनदेवता जगति हास्यमिदं परमं || ४२ || प्रतिकृतिरचिता भुवि कृतार्थजिनाधिपतेरधिगतभक्तिभिर्द्रविण भाव विधार्थतया । फलति फलं परत्र परिणाय विशेषवशादभिमत कल्पवृक्षलतिकेव जनाभिमतं ||४३|| अपथनिघातघातनघनानुमतैरशु भैस्त्रिभिरशुभावो भवति दुर्गतिहेतुरलं । पथि यतिभाषिते स्वकृतकारकतानुमतैर्भवति शुभास्रवः सुगतिहेतुरपीह शुभैः || ४४|| Jain Education International ५८४ For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy