________________
५८३
हरिवंशपुराणं ।
एकोनपंचाशः सर्गः। धृतिरिह वध्यते वरददेवतया रुधिरे इति विनिधाय दैवतमदस्त्रिकरांगुलिभिः ॥३२॥ वनमहिषं निपात्य विषमं विषमाः परितः परुषकिरातका रुधिरमांसवलिप्रकरं ।
विचकरुरुद्रमग्नशकमक्षिकमक्षिविर्ष प्रविततविस्रगंधदुरभीकृतदिग्वलयं ॥३३॥ सुगतगताममूं परमकारुणिकां तपसा जगति जनस्ततः प्रति निरागसमत्र जडः। __ वनचरदर्शितेन नु यथा नरकाभिमुखः पिशितवशो निहति हि पशून्महिषप्रभृतीन् ॥३४॥ न हि महिषास्त्रपानवधिका न हि शूलकरा न हि सुरदुर्गतावपि परस्परघातकता ।
रचयति भित्तिमात्रमुपलभ्य कविः कवितां सदेसतीं यथा च लिखति स्फुटचित्रकरः॥३५॥ सदपि दुरीहितं रहसि हि परस्य परैः सदसि निगद्यमानमघमावहतीहि सतां ।
मतमिदमस्य तु प्रकटनं जगतामसतो न नरकपातहेतुरिति कस्य सतो वचनं ॥३६॥ अवितथमित्यमी वितयमेव शठा कवयः स्वपरमहारयो विदधते विकथाकथनं ।
परवधकापथेषु भुवि तेषु तथेति जनः सुररवमूढधीः पतति गडुरिकाकटवत् ॥३७॥ क परदयापरः परमधर्मपथो भुवने विधिवदनुष्ठितस्तनुभृतां सुखदः प्रकटः। १ निष्पापम् । २ ससदमतीं इति क पुस्तके। ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org