________________
हरिवंशपुराणं।
५८२ .
एकोनपंचाशः सर्गः। __ कृतविहृतिः कदाचन गता पथुसार्थवशानिजसहधर्मिणीभिरुरुविंध्यमहागहनं ॥२६॥ निशि निशितासिनिर्मलनिशातमनास्त्वसको प्रतिपथया स्थिता प्रविशया प्रतिमा प्रतिमा ।
वरशवरसेनया स्फुटमदर्शि निशानिभया बहुघनसार्थपातविधेयद्रुतमागतया ॥२७॥ इह वनदेवतास्थितवतीयमिति प्रणतैः शबरशतैरितिस्ववरदानमयाच्यत सा । __भगवति वः प्रसादनिरुपद्रविणो द्रविणं यदभिलभेमहि प्रथमकिंकरका क्यकं ॥२८॥ इति तु वनेचरैः कृतमनोरथकैः पृथुकैः प्रबलतयासुसार्थमभितः पुनरापतितैः ।
विनिहितसार्थसार्थकतयांतमितैः प्रतिमा-स्थितियुतसंयतास्थितिभुवीदमदर्शि तु तैः॥२९॥ प्रशमसमाधिभागनशनस्थितिमामरणादुपगतपुंडरीकादुरुपल्लवचंडतया।
स्वयमुपपद्य सा दिवमगात्प्रतिमाप्तमृतिमधुमथनस्वसा स्खलति न स्थितितः सुजनः॥३०॥ नखमुखदंष्ट्रिकाविकटकोटिविपाटितया यदपि कलेवरखंडमुपार्जितधर्मतया ।
मृतिमितया विमुक्तमविमुक्तसमाधितया तदपि करांगुलित्रिकशेषमशेषमभूत् ॥३१॥ रुधिरविलुप्तगुप्तपथभूतलमाकुलिताः सकलमितस्ततस्तदभिवीक्ष्य तदा शवराः। १ रात्रिप्रभातुल्यया-कृष्णया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org