________________
हरिवंशपुराणं।
एकोनपंचाशः सर्गः। अत इह जंतुभिः परवधादिनिवृत्तिपरैः स्वपरहितैः सदापि भवितव्यमपि प्रभुभिः । ___ न हि भवपद्धतौ भवभूतामिह संसरतां सुकृतभुजां सतां प्रतिभवति सदा प्रभुता ॥२०॥ इति वचनं गुरोरभिनिशम्य कृतावनतिः प्रगतवती तया सह महत्तरिकार्यकया । __व्रतमदधाद्विमोच्य हि सकाखिलबंधुजनं सितवसनावृतस्तनभरोघृतकालकुचा ॥२१॥ व्यपहृतभूषणस्रगियमात्मकरांगुलिभिर्निकचितकेशभारनिखिलोत्खननं तु तदा ।
प्रविदधती बभौ कुसुमकोमलबाहुलता स्फुटमिव धीकुटीकुटिलशल्यमिवोद्धरणं ॥२२॥ जघनमुरः कुचावुदरमाचरणं च वपुः सुमृदुदुकूलकैकवसनेन कृतावरणं ।
स्वविदधती सती चिरमराजत सा च तदा वृतसिकतास्थलाच्छपयसा शरदीव नदी ॥२३॥ स्वजनकृताभिनिष्क्रमणपूजनिकां जनिकां पुरुतपसं निशाम्य नवसंयतिकां हितकां । __ अजनि महाजनस्य सकलस्य तदेतिमतिःसधृतिः सरस्वती किमु तपस्यति किं नु रतिः।२४। व्रतगुणसंयमोपवसनादितपोभिरसौ प्रतिदिनभावनाभिरपि भावितभावयुता । ___ वसति तपस्यया वसतिरागमगीतगिरां पुरुगुणसंयता गणनिवासगता सततं ॥२५॥ बहुषु तु वर्षवासरगणेषु गतेषु ततो जिनजननाभिनिष्क्रमणनितिभूमिषु सा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org