________________
हरिवंशपुराण।
५८०
एकोनपंचाशः सर्गः। विचिपिटनासिकं रहसि दर्पणके स्वमुखं स्फुटमवलोक्य तद्भवविरागमगात्त्रपिता ॥१३॥ पुरि विधृतार्जिकागणमहत्तरिकापदया व्रतधरपादमूलमितया सह सुव्रतया ।
सुरगुरुरपृछयत प्रणतया निजपूर्वकृतं स्फुरदवधीक्षणः क्षणमसाविति तां न्यगदीत् ॥१४॥ तव दुहितः सुराष्ट्रविषये विषयेंद्रियजैविगतभये सुखैरतिविमूर्छित मूढधिया ।
पुरुषतयाभिरूपपदमुद्रहतांगभृता निभृतमनंकुशं निभृतमात्ममनोनयनं ॥१५॥ अतिविषमं तपो घटयतो मृतशायिकया शकटमृषेरुपर्युपरि हितं तदा त्वकया ।
विमृदितनाशिकापुटतटस्य मुनेः स्खलनं मनसि न जातमीषदपि धीरतया धृतया ॥१६॥ अजनितजीवघातगुणतो नरके पतनं तव हि मनाम जातमृषिगात्रवधादिह तु ।।
अजनि विनाशिकस्य वदनस्य महाविकृतिः फलति फलं स्वकर्मजगतां हि यथाविहितं ॥१७॥ सकृदपि जीवघातकृदघादसकृत्परतः परवशघातदुःखमभियास्यति जंतुरिह । __ अवयवघातकृत् सकृदपि स्वकृतैरसकृदवयवघातमेष्यति सदेति जिनस्य वचः ॥१८॥ वचनमनस्तनुभिरभि यः पुरुषः परुषा पुरुषवधादिषु प्रभुतया प्रयतंत इह ।
दुरितमहाप्रभुः परभवेषु जनेषु पुनः प्रभवति दुःखदानचरश्चतुरेश्वपि हि ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org