________________
हरिवंशपुराणं ।
५८५
एकोनपंचाशः सर्गः । मनसि शुभे निजे वचसि वा वपुषि प्रगुणो किमिति न पुण्यमेव जगदेकगतं कुरुते ।
घटयति पापमेव विगुणैः सुकृतैः करणैर्गुरुतरमत्र कारणमहो गुरुकर्मकृतं ॥४५॥ तिमिरभरं त्रिमूढिमयमत्रढं जगतः स्थगयदलं पवित्रनेत्रमनौषधकं ।
तदिह जनो दिदृक्षुरपि तत्त्वमतत्त्वमपि प्रतिपदमाकुलः किमु निरूपयितुं क्षमते ॥४६॥ अतिनिचिताग्निवायुजलभूमिलतातरुभिः क्षितिरपचेतनैश्च गृहकल्पितदैवतकैः ।
रविविधुतारकाग्रहगणैर्जननेत्रपथैर्गगनमतोस्तु मूढिरिह कस्य जनस्य न वा ॥४७॥ सदसदनेकमेकमथ नित्यमनित्यमपि स्वकपररूपभेदमपि शेषमशेषपरं ।
गुणगुणिकार्यकारणभिदायखिलात्मतया जगदिदमित्यमी नियमिनो दृढमूढतया ॥४८॥ यदि च परस्परव्युदसनव्यसनाः स्युर्मूषा स्फुटमिततरेतरेक्षणतया न मृषा हि तथा ।
निगमनसंग्रहव्यवहृतिप्रमुखाश्च नयाः सकलनयप्रमाणपरिनिश्चितवस्तुनि याः ॥४९॥ पुरुषपुरस्सरोभिरुचिरन्यनिवृत्तिरुचेर्मुनिपतिशासना शासनाभिरतस्य जनस्य हि सा।
सुगतिमयत्नतो विशति सिद्धिसुखान्वयिनं शुभमखिलार्थगोचरमुदारचरित्रमपि ॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org