SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ हरिवंशपराण। अष्टचत्वारिंशः सर्गः। अकंपनो महासेनो धीरो गंभीरनामकः । उदधिरौतमश्चापि वसुधर्मा प्रसेनजित् ॥७०॥ सूर्यश्च चंद्रवमो च चारुकृष्णश्च विश्रुतः । सुचारुर्देवदत्तश्च भरतः शंखसंज्ञकः ॥७१॥ प्रद्यम्नशंवनामाद्या केशवस्य शरीरजाः । शस्त्रास्त्रशास्त्रनिष्णाता सर्वे युद्धविशारदाः ॥७२॥ तेषां पुत्राश्च पौत्राश्च यादवानां यशस्विनां । पैतृश्वस्त्रीया स्वस्रीयाः कुमारास्ते सहस्रशः ॥७३॥ तिनः कोट्योऽर्धकोटी च कुमाराणां महौजसां । मनोभवस्वरूपाणां रमते रमणप्रियाः । नित्यं द्वारवती पुरी परिगता वीरैः कुमारैरिमैः निर्गच्छद्भिरितस्ततो रथगजारूढर्विशद्भिस्तथा नानावेषधरैः प्रचंड चरितैः पौरप्रजाह्लादिभि भ्राजे भवनामरैरिव पुरी पाताललोकस्थिता ॥७५।। प्रायः स्वर्गच्युतानां जिनपथचरितोदारपुण्योदयानां कीयानां कीयमानं चरितमिदमिहश्रीकुमारोत्तमानां संशृण्वंत्येकमत्या मतिविभवयुताः श्रद्दधाना जना ये कौमारं यौवनं च व्यपगमितरुजस्ते वयो निर्विशति ॥६॥ इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ यदुकुलकुमारोद्देशवर्णनो नाम अष्टचत्वारिंशः सर्गः । ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy