________________
हरिवंशपुराणं।
५७६
अष्टचत्वारिंशः सर्गः। द्वौ नीलयशसः पुत्रौ धारौ सिंहमतंगजौ । नारदो मरुदेवोऽपि सोमश्रीतनयौ वरौ ॥ ५७ ॥ मित्राश्रयः सुमित्राख्यः कपिलः कपिलात्मजः। पद्मश्च पद्मकाख्यश्च पद्मावत्याः शरीरजौ ॥५८॥ अश्वसेनोऽश्वसेनाया पौंड्राया पौंडू एव तु । रत्नगर्भः सुगर्भश्च रत्नवत्याः सुतौ मतौ ॥ ५९॥ सोमदत्तसुतायास्तु चंद्रकांतशशिप्रभौ । वेगवान्वायुवेगश्च वेगवत्यास्तनूभवौ ॥६॥ दृष्टिमुष्टिरनावृष्टिर्हिममुष्टिश्च ते त्रयः । पुत्रा मदनवेगाया मदनप्रतिमागताः ॥६१॥ बंधुषेणस्तथा सिंहसेनो बंधुमतीसुतौ । प्रियंगुसुंदरीसूनुः शीलायुध इति श्रुतिः ॥२॥ द्वौ सुतौ तु प्रभावत्यागंधारः पिगलस्तथा । जरत्कुमारवाहीको जरायास्तनयो स्मृतौ ॥६३॥ अवंत्याः सुमुखश्चैव दुर्मुखश्च महारथः । रोहिण्या बलदेवश्च सारणश्च विदूरथः ॥६४॥ तनूजौ बालचंद्राया वज्रदंष्ट्रमितप्रभौ । देवकीतनुजो विष्णुरितीमे वसुदेवजाः ॥६५॥ उन्मुंडो निषधश्चासौ प्रकृतिद्युतिरप्यतः । चारुदत्तो ध्रुवः पीठः स शक्रंदमनोऽपि च ॥६६।। श्रीध्वजो नंदनश्चैव धीमान् दशरथस्तथा । देवनंदश्च विख्यातो विद्रुमः शंतनुः परः ॥६७॥ पृथुः शतधनुश्चैव नरदेवौ महाधनुः । रोमशैत्यादयः पुत्रा बहवो बलिनस्तथा ॥६८॥ भानुः सुभानुभीमौ च महाभानुसुभानुकौ । वृहद्रथश्चाग्निशिखो विष्णुसंजय एव च ॥६९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org