________________
हरिवंशपुराणं ।
५७८
एकोनपंचाशः सर्गः । एकोनपंचाशः सर्गः। अथ मधुसूदनावरजया वरया जगतामवितथकन्यया शशिविशुद्धयशोधरया
प्रथितसुदुर्मरप्रथमयौवनभूरिमरः प्रकटमभारि हारिगुणभूणभूषितया ॥१॥ नखमणिमंडलेंदुरतिनिर्मलपल्लवयोरकृत करकृता हसितभास्वदलक्तकयोः __ मृदुपदपद्मयोः प्रमदभागसमन्वितयोर्जगति यदीययोरुपमयापगतं त्रपया ॥२॥ दृढ़गुणगूढगुल्फनिजनानुमनोहरयोः प्रतिपदमानुपूर्व्यपरिवृत्तविलोमशयोः
निरुपमजंघयोर्जघनभूरिभरक्षमयोः सविरसमल्पयोर्न हि यदीयकयोरुपमा ॥३॥ मृदुपरिवृत्तपांडुरगुणं विगलदहलस्थिरकरकांतिदीप्तिरसपूरितमूरुयुगं ।। __ करिकरयष्टिवृत्तकदलीमृदिमानमतिप्रथितमतीत्य सत्यगुणचारि यदीयमभात् ।।४॥ बहुरसपूर्णवर्णकुलशैलभवप्रमदा प्रमदविधायि पुण्यसरितः कलहंसगनेः । ___ गुरुजघनस्थलीपुलिनभूमिरभूमिरसौ कुसुमरथस्य शुंभितनितंबतटेव बभौ ॥५॥ तनुमदुरोमराजिलतयातिविनीतरुचा जननयनाभिरामनिजनाभिगभीरतया ।
तनुमध्यबंधनवलित्रयविचित्रतया ललितवधूजनेष्वतिविराजितमत्रपया ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org