________________
५७४
हरिवंशपुराणं ।
अचत्वारिंशः सर्गः । लोकालोकविभागोक्ति हरिवंशानुकीर्तनं । स्वक्रीड़ां सौर्यलोकोक्तिनिर्गमं च ततो निजं ॥३१॥ इत्यादि चरितं दिव्यं दिव्यमानुषसंभवं । प्रद्युम्नशंबसंभूतिभूतिपर्यवसानकं ॥ ३२॥ वसुदेवस्य सर्वोऽपि सर्वविद्याधरीमयः । अंतःपुरजनो हृष्टः श्रुतस्मरणसंगतः ॥ ३३ ॥ श्रुत्वा सभाजनाश्चापि वृद्धस्त्रीयुवबालकाः । यादवोंऽतःपुराण्येपां कुरवो द्वारिकाजनाः ॥३४॥ विस्मयं परमं प्राप्ताः शशंसुः संशयोज्झिताः । वसुदेवं शिवाद्याश्च देव्यः पीतकथारसाः ॥३५॥ यथायथं नृपा जग्मुरावासान्वासितांबराः । अंतःपुराणि सर्वेषां रक्षितानि सुरक्षकैः॥३६ ॥ कथा पुनर्नवीभूता प्रतिवेश्म दिने दिने । जाता जनस्य साश्चर्या वसुदेवमयी कथा ॥३७॥ नत्वा पृष्टवते भूपः श्रेणिकाय गणी जगौ । कुमारान् कतिचित्पुर्यामिति वीरवचः क्रमात् ॥३८॥ उग्रसेनस्य तनया धरो गुणधरोऽपि च । युक्तिको दुर्धरश्चापि सागरश्चंद्रसंज्ञकः ॥ ३९ ॥ उग्रसेनपितृव्यस्य शांतनस्य सुतास्त्वमी । महासेनशिविस्वस्थविषादानंतमित्रकाः ॥ ४० ॥ महासेनस्य तनयः सुषेण इति नामतः । हृदिको विषमित्रस्य शिवः सत्यक इत्यसौ ॥४१॥ हृदिकात्कृतिधर्मासौ दृढ़धर्मा च देहजः । सत्यकाहज्रधर्मोऽभूदसंगस्तु तदंगजः॥४२॥ समुद्रविजयोद्भूता महासत्यदृढाधिकाः । नेमयोऽरिष्टनेमीशः सुनेमिर्जयसेनकः ॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org