________________
५७३
हरिवंशपुराणं।
अष्टचत्वारिंशः सर्गः। ताडितः पुनरुवृत्तः पित्रा प्रणयकोपिना । युग्येन कन्यकारूपः सत्योत्संगमतोऽविशत् ॥१८॥ सत्या सुतार्थमानीतां विवाह्य वरकन्यकाः । आविश्चकार रूपं स्वं शंबो लोकस्य पश्यतः ॥१९॥ एकस्यामेव रात्रौ तु कन्यकानां शतेन सः। कल्याणस्नातकं स्नात्वा मातृसौख्यकरोऽभवत् ॥२०॥ सत्यभामादिदेवीनां कुमाराः शतशस्तदा । विवाह्य बहुशः कन्याश्चिक्रीडुः शक्रकीर्तयः ॥२१॥ क्रीडापूर्वं गतो गेहमन्यदा मान्यमात्मनः । पितामहमिति प्राह शंबः प्रणतिपूर्वकं ॥२२॥ युष्माभिः सर्वकालेन क्लेशेन खचरांगनाः। पर्यटद्भिः क्षितौ लब्धाः पूज्य पूज्या मनोरमाः॥२३॥ अक्लेशेनैकरात्रेण मया तु गृहवर्तिना। परिणीताः शतं कन्याः पश्यतांतरमावयोः ॥२४॥ वसुदेवस्ततः प्राह वल्स त्वमिषुवत्पुनः। क्षिप्तोऽपि गृहमध्येऽपि दूरमंतरमावयोः ॥२५॥ मया खेटपुरांभोधिमकरण समं निजं । द्वारिकाकूपमंडूकः पंडितमन्य मन्यसे ॥२६ ।। अनुभूतं श्रुतं दृष्टं यन्मयातिमनोहरं । विद्याधरपुरेष्वेतदन्येषामतिदुर्लभं ॥२७॥ इत्युक्ते प्रणतेनोक्तः शंबेनानकदुंदुभिः । शुश्रूषामार्य वृत्तं ते भण्यतामिति सादरं ॥२८॥ स प्राहानंदभेयो त्वं वत्स बोधय यादवान् । कथयामि समात्तानां सहैव चरितं निजं ॥२९॥ तथा कृते समस्तेभ्यो यादवेभ्यः सविस्तरं । कलत्रादिसमेतेभ्यो वृत्तं तेनाकथि स्वकं ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org