________________
हरिवंशपुराणं।
५७२
अष्टचत्वारिंशः सर्गः। हरि सत्यापि संप्राप्ता संप्राप्तमदनोदया । रमिता च दधे गर्भ सा स्वर्गच्युतमर्भकं ॥ ५ ॥ वर्धतेस्म ततो हर्षो गर्भयोर्वर्धमानयोः । पितृमातृस्वबंधूनां सिंधूनामिव चंद्रयोः ॥६॥ पूर्णेषु नवमासेषु शंब जांबवती सुतं । सुषुवे सत्यभामापि सुभानुं भानुभास्वरं ॥ ७ ॥ हृष्टा प्रद्युम्नशंबाम्यां रुक्मिणी जांबवत्यपि । भामा भानुसुभानुभ्यां श्रिताभ्यामुदयश्रियं ॥ ८॥ हरेरन्याम्वपि स्त्रीषु जाताः पुत्रा यथायथं । यदूनां हृदयानंदाः सत्यसत्वयशोऽधिकाः ॥९॥ शंवः क्रीड़ासु सर्वासु कुमारशतसेवितः । जित्वा सुभानुमाक्रम्य विक्रमी रमतेतरां ॥१०॥ रुक्मिणी रौक्मिणेयाय वैदर्भी रुक्मिणः सुतां । ययाचे न ददौ कन्यां सोऽपि पूर्वविरोधतः॥११॥ गत्वा मातंगवेषेण शंबप्रद्युम्नसंवरौ । बलादाहरतां कन्यां रुक्मिणं परिभूय तौ ॥१२॥ परिणीय ततः कामः कन्यामन्यामिव श्रियं । अरीरमदरं भोगारिकायां मनोरमैः ॥ १३ ॥ दक्षो जित्वा सुभानुं तं छूत प्रेक्षणकेक्षणे । शंबो ददाति सर्वस्य लोकस्य सकलं धनं ॥ १४ ॥ क्रीडया स पुनार्जिग्ये पक्षिणोर्बहुजल्पिनोः । गंधयुक्तिप्रयोगेण पुनः सदसि शाणिः ॥१५॥ अग्निशोध्येन दिव्येन सवस्त्रयुगलेन तं । दिव्यालंकारयोगेन जिगाय सदसि प्रभोः ॥ १६ ॥ बलदर्शनतो जित्वा तमसौ हृष्टविष्णुतः । मासं लब्ध्वा पुना राज्यं चक्रे दुर्ललिताः क्रियाः॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org