SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ५७१ अष्टचत्वारिंशः सर्गः । ततः प्रणतमाश्लिष्य प्रद्युम्नं प्रमदं हरिः । आनंदाश्रपरीताक्षः समयोजयदाशिषा ॥ १३३॥ मायया शायितं सैन्यं समुत्थाप्य सविद्यया । तुष्टो बांधवलोकेन मदनः प्राविशत्पुरीं ॥१३४॥ रुक्मिणीजांबवत्यौ ते जातपुत्रसमागमे । तदाचीकरतां तोषादुत्सवं वत्सवत्सले ||१३५॥ मान्यो मान्याभिरन्यस्त्रीश्रीकरीभिरसौ ततः । मनोभूर्वरकन्याभिः कल्याणमभजत्परं ॥ १३६ ॥ कनत्कनकमालया कनकमालया सेवया विवाहसमयाप्तया समभिदृष्ट कल्याणकः । विवाह्य विधिना वधूरुदधिपूर्विका मन्मथो जिनेंद्रवरशासनोर्जितसुखोदयः सोन्वभूत् ॥ १३७॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनेसनाचार्यकृतौ कुरुवंशप्रद्युम्नमातृपितृसमागमवर्णनो नाम सप्तचत्वारिंशः सर्गः । अष्टचत्वारिंशः सर्गः अथ शेवस्य संभूर्ति सुभानोश्च यथाक्रमं । कथयामि यथावृत्तं शृणु श्रेणिक हारिणीं ॥ १ ॥ देवः कैटभपूर्वोसौ पूर्वमुक्तोऽच्युतोद्भवः । हरये हारिणं हारं ददौ भामासुतार्थिने ॥ २ ॥ प्रदोषसमये हारं तं प्रद्युम्नप्रयोगतः । सत्यारूपधरां भुक्त्वा लेभे जांबवती हरेः ॥ ३ ॥ कैटभश्च तदा च्युत्वा पुण्यादप्रच्युतोदयः । श्रितो जांबवतीगर्भ सागता च निजं गृहं ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy