________________
हरिवंशपुराणं ।
५७०
सप्तचत्वारिंशः सर्गः ।
इत्युक्ते प्रणिपत्यास जगाद नयनोत्सवः । बालभावमहं मातर्दर्शयामीह दृश्यतां ॥१२०॥ ततः स तत्क्षणं जातस्तदहर्जातदारकः । आस्वादितकरांगुष्ठः प्रोत्फुल्लनयनोत्पलः ॥१२१॥ ततस्तनंधयो जातो गृहीतस्तनचूचुकः । तयोत्तानशयो मातुः करपल्लव सौख्यदः || १२२॥ संसर्पन्नुरसा जातस्तथोत्तिष्ठत्पतत्पुनः । मातुः करांगुलौ लग्नो मणिकुट्टिमसर्पिणः ॥ १२३॥ पांशुक्रीडां विधायांचा कंठलग्नो व्यधात्सुखं । कलालापस्मिताह्लादिवदनो वदनेक्षणः ||१२४ || मनोहर शिशुक्रीडापूरितांबामनोरथः । स्वभावस्थितदेहस्थो नत्वा विज्ञाप्य तां सुतः ॥ १२५ ॥ क्षिप्रमुत्क्षिप्य बाहुभ्यां नियति प्रकटस्थितः । जगाद श्रूयतां सर्वैरिह यादवपार्थिवैः ॥ १२६॥ युष्माकं पश्यतामेव लक्ष्मीरिव हरेः प्रिया । ह्रियते रुक्मिणी देवी यादवाः परिरक्ष्यतां ॥१२७॥ इत्युक्त्वा शंखमापूर्य नारदोदधिकन्ययोः । विमाने स्थापयित्वा तां युद्धार्थं वियति स्थितः ॥१२८॥ विनिर्ययुस्ततः पुर्या योद्धुं सन्ना यादवाः । चतुरंगबलोपेताः पंचायुधविचक्षणाः ॥१२९॥ विद्यावलेन निश्शेषं कामो यादव साधनं । मोहयित्वांबरस्थेन युयुधे हरिणा चिरं ॥ १३०॥ अस्त्रकौशलवैफल्ये कृते कृष्णस्य सूनुना । प्रौढदृष्टी महादोभ्यां योद्धुं वीरौ समुच्छ्रितौ ।। १३१ ॥ विमुक्तनारदेनोभो वियत्यागत्य वेगिना । वारितौ तौ पितापुत्र संबंधविनिवेदिना ॥१३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org