________________
हरिवंशपुराणं।
५६९
सप्तचत्वारिंशः सर्गः। मायामर्कटमायाश्वर्भामोपवनभंगकृत । अशोषयन्महावापी मायया मदनस्तदा ॥१०७॥ मक्षिकादंशमशकैः सकरस्पंदनं नृपं । निवर्त्य द्वारि चिक्रीड खरमेषरथी चिरं ॥१०८॥ व्यामोह्य पौरलोकं च विविधक्रीडया चिरं । वसुदेवेन संक्रीड्य मेषयुद्धेन संमदी ॥१०९॥ भोजने ग्रासने विप्रः सत्यायाः सोग्रजन्मनः । खलीकृत्याशनैर्लेग्नै छर्दिकाहारकोऽगमत् ॥११०॥ विकृत्य क्षौल्लकं वेषं मातृमोदकभक्षिणा ! नामादेशकरस्तेन नापितश्च तिरस्कृतः ॥१११॥ संकर्षणस्य हत्वेच्छां पादाकर्षणकारिणः । आरराम चिरं स्वेच्छं लोकविस्मयकृत्कृती ॥११२॥ प्रद्युम्नागमचिहानि पूर्वोक्तानि तदा परे । प्रस्तुतस्तनकुंभाया मातुरध्यक्षतां ययुः ॥११३॥ सातोऽचिंतयदत्यंतविस्मिता मे सुतोन्वयं । कृतरूपपरावृत्तिरागतः षोडशाब्दके ॥११४॥ तं प्रद्युम्नकुमारोपि तत्क्षणं प्रकृतिस्थितः । सुतस्तेहमितीरित्वा मातरं प्रणनाम सः ॥११५॥ सानंदसाकुलाक्षी तं रुक्मिणी तनयं नतं । परिश्वज्य जहौ दुःखमश्रुभिः सहसा चितं ॥११६॥ दर्शनामृतसिक्ताया पुलकव्यपदेशतः । प्रत्यंगरोमकूपेभ्यः सुतस्नेह इवोद्ययौ ॥११७॥ तयोः कुशलसंप्रश्ने संवृत्ते मातृपुत्रयोः । माता पुत्रमवोचत्तं चिचनिवृत्तिदायिनं ॥११८॥ धन्या कनकमालासौ पुत्र ! पुत्रफलं यया । बालक्रीडावलोकाख्यमनुभूतं शिशोस्तव ॥११९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org