________________
हरिवंशपुराणं ।
५६८
सप्तचत्वारिंशः सर्गः। केशवेन वितीर्ण मे शुल्कं दत्वा तु गम्यतां । इत्युक्ते कैश्चिदित्युक्तं प्रार्थ्यतां प्रार्थितं तव ॥१४॥ यदत्र निखिले सैन्ये सारभूतमितीरिते । ईरितं सारभूतात्र कन्यकेति समन्युभिः ॥९५।। यद्येवं दीयतां मह्यं सैवेत्युक्ते जगुः परे । विष्णुना जनितो न त्वं स प्राह जनितस्विति ॥१६॥ असंबद्धप्रलापस्य धृष्टतां पश्यतेति ते । धनुःकोटिभिरुत्सार्य प्रवृत्ता गंतुमुद्यताः ॥९७|| ततः शाबरसेनाभिर्विद्यया विकृतात्मभिः । दुर्योधनबलं जित्वा कन्यामादाय खं श्रितः॥९८॥ दिव्यरूपं तमालोक्य कन्या त्यक्तभया ततः । हृष्टा नारदवाक्येन बुद्धतत्त्वा समाश्वसीत् ॥१९॥ विमानं कामगं कामः समारुह्य समं तया । नारदेन च संप्राप्तो द्वारिका द्वारहारिणीं ॥१०॥ अपश्यत्स विदूरेण सागरेण गरीयसा । प्राकारेण च तां गुप्तां गोपुराट्टालसंकुलां ॥१०॥ बाह्यबाह्यालिकां भानुरश्वव्यायामहेतुना । निर्गतोऽदर्शि कामेन गगनस्थविमानिना ॥१०२॥ तुरगस्त्वरया दिव्यस्थविराकारधारिणा । नीतो भानुकुमारार्थमारुढस्तं स हारिणं ॥१०३॥ बाह्यमानेन तेनासौ कुमारः कामरूपिणा । खलीकृत्य चिरं नीतः स्थविरांतं निजेच्छया॥१०४॥ अवतीर्णस्ततो भानुरहो कौशलमित्यलं । हसितः साट्टहासेन करास्फालनकारिणा ॥१०५॥ जरनारोप्यमाणस्तु मानुलोकेन तं चिरं । खलीकृत्य व्यलीकेन व्यालाश्वस्थः स्वयं ययौ ॥१०६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org