________________
हरिवंशपुराणं।
सप्तचत्वारिंशः सर्गः। निरपायानुपायज्ञो मुक्त्वा पंचशतान्यपि । प्रातृस्नेहपरः कामः क्षमयित्वा पुनः पुनः ॥८॥ आपृष्टेन सतुष्टन कालसंबरभूभता । विसृष्टो रुक्मिणीकृष्णदर्शनोत्सुकमानसः ।। ८२ ॥ प्रणम्य पितरं स्नेहान्नारदेन सहांबरं । अथारूदो विमानेन द्वारिकागमनं प्रति ।। ८३ ॥ संकथाभिर्विचित्राभिर्नभस्यागच्छतोस्तयोः । अतिक्रांतेभपुरयोः सैन्यं दृष्टिपथेऽभवत् ।।८४॥ कस्येदमटवीमध्ये पूज्य सैन्यमधो महत् । पश्चिमाशामुखं याति क किमर्थमतिद्रुतं ॥ ८५ ॥ संपृष्टः कामदेवेन नारदोप्यगदीदिति । श्रृणु कामकथालेशं कथयामि तवाधुना ।। ८६॥ अस्ति दुर्योधनो राजा कुरुवंशविभूषणः । दुर्योधनो द्विषां युद्धे स हास्तिनपुरे वरे ॥ ८७॥ अग्रजाय मया देया रुक्मिणी सत्यभामयोः । दुहितेति प्रतिज्ञातं पूर्वप्रीतेन तेन च ॥८८|| अग्रजस्त्वं ततो जातो विष्णवे विनिवेदितः । भानुश्च सत्यभामायास्तदनंतरमांतरैः ॥८९॥ अकस्माद्च्छता कापि हतस्त्वं धूमकेतुना। विषण्णा रुक्मिणी जाता सत्यभामा तु तोषिणी॥९॥ अविज्ञातभवद्वाहॊ दुर्योधनयशोधनः । कन्यकामुदाधि नाम्ना भानवे प्रहिणोदसौ ॥११॥ भाविनीव ततः सेयं महासाधनरक्षिता । द्वारिकां प्रस्थिता कन्या भानवे किल भाविनी ॥१२॥ श्रुत्वा नारदमाकाशे स्थापयित्वा क्षणं ततः । सोबतीय पुरस्तस्थौ शावरं वेषमाभितः ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org