________________
हरिवंशपुराणं ।
समचत्वारिंशः सर्गः । साऽदर्शयच्च पत्येऽगं नाथ प्रद्युम्नचेष्टितं । पश्येत्यपत्यसंभारं प्रत्योतिस्म स चापि तत् ॥ ६८॥ आहूय रहसि क्रुद्धः पुत्रपंचशतानि सः । आदिदेशान्यदुर्बोधं प्रद्युम्नो मार्यतामिति ॥ ६९ ॥ लब्धादेशास्ततस्तुष्टास्ते तमादाय सादराः। अन्येधुरगमन्यापा वापी कालांबुनायिकां ॥७॥ निपत्य युगपत्सर्वे तस्योपरि जिधित्सवः । प्राचूचुदन जलक्रीड़ां वाप्यां कुर्म इति द्विषः ॥७१॥ कर्णो कथितमेतस्य ततः प्रज्ञप्तिविद्यया । यथातथ्यमिति क्रोधादंतर्हिततनुः क्षणात् ।। ७२ ।। पपात मायया वाप्यां निर्याता इव निघृणाः । तेऽपि सर्वे समं पेतुरस्योपरि जिघांसवाः ॥७३॥ ऊर्ध्वपादानधोवस्त्रानेकशेषानमूनसौ । स्तंभयित्वानुजं कृत्वा पंचचूडमजीगमत् ।। ७४॥ पुत्रोदंतं ततः श्रुत्वा द्विगुणक्रोधदीपितः । सन्नह्य सर्वसैन्येन संप्राप्तः कालसंवरः ॥ ७५ ॥ विद्याविकृतसैन्येन प्रधुम्नेन ततश्चिरं । युध्वाभग्नोति भनेच्छः स गत्वा कृष्णसंवरः ॥७६ ॥ ऊचे कनकमाला तां देहि प्रज्ञप्तिमित्यरं । स्तन्येन सह बाल्येऽस्मै मया दत्तेति सावदत् ॥७७।। ज्ञातमायादुरीहोसौ पुनरागस्य मानवान् । युध्यमानोभुना बद्धो निहितो हि शिलातले ॥७॥ तदानीमेव संप्राप्तो नारदोऽतिविशारदः । प्रद्युम्नेन कृताभ्यर्च्यः संबंधमखिलं जगौ ॥ ७९ ।। कालसंवरमुन्मुच्य क्षमयित्वा ततोऽवदत् । पूर्वकर्मवशेच्छाया मातुर्मे क्षम्यतामिति ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org