________________
हरिवंशपुराणं ।
५६५
सप्तचत्वारिंशः सर्गः । इतिप्रबलदुःखेयं खेचरी निखिलाः क्रियाः । विसस्मार स्मराश्लेषसुखलाभः मनोरथा ।। ५५ ।। अस्वस्थामपरेद्युस्तां प्रद्युम्नो दृष्टुमागतः । अद्राक्षीद्विशिनीपत्रपर्यस्ततनुमाकुलां ॥ ५६ ॥ पृच्छतिस्म स तां कामः शरीरास्वास्थ्य कारणं । इंगितैरांगितैः सोऽपि वाचिक्यैश्च व्यबोधयत् ॥ ५७ ॥ वैपरीत्यं ततो ज्ञात्वा निंदित्वा कर्मचेष्टितं । स मात्रपत्यसंबंधप्रत्यायनपरोऽभवत् ।। ५८ ।। सापि तस्मै यथावृत्तमादिमध्यावसानतः । अटवीला भसंवृद्धिविद्याला मानवेदयत् ॥ ५९ ॥ स्वसंबंधं ततः श्रुत्वा संदिग्धार्थमतिर्गतः । दृष्ट्वा सागरचंद्राख्यं मुनिं चैत्यगृहे मुदा ॥ ६० ॥ नत्वा पृष्ट्वा ततो ज्ञात्वा सर्वान्पूर्वभवान्निजान् । तथा कनकमालायाचंद्राभायाः पुरे भवे ॥ ६१॥ सम्यग्दर्शनसंशुद्धो ज्ञातप्रज्ञप्तिलाभकः । गत्वा शीलघनोऽप्राक्षीन्मदनो मदनातुरं ॥ ६२ ॥ दृष्ट्वा हृष्टा जगौ तं सा श्रृणु काम भणामि ते । गौरीं प्रज्ञप्तिविद्यां च त्वं गृहाण यदीच्छसि ॥६३॥ ततः प्रसाद इच्छामि दीयतामितिवादिने । ददौ विधियुते विद्ये विद्याधरदुरासदे ॥ ६४ ॥ प्रसारित विद्ये गृहीत्वा प्रमदी स तां । प्राणविद्याप्रदानान्मे गुरुस्त्वमिति सद्वचाः ॥ ६५ ॥ त्रिःपरीत्य प्रणम्याग्रे स्थितः सुकरशेखरः । अपत्योचितमादेशं याचित्वा स्वोचितं ययौ ॥ ६६ ॥ छद्मिताहृमिति ज्ञात्वा सातिकोपवशात्ततः । कक्षवक्षः कचोद्देशान् नखक्षतभृतोऽकरोत् ॥६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org