________________
हरिवंशपुराणं।
५६४
सप्तचत्वारिंशः सर्गः। अन्यां नागगुहां यातश्चंदनागुरुमालिकाः । पौष्पं छत्रं च शयनं लेभे तत्र तु पार्थिवात् ।।४२॥ स दुर्जयवने लेभे जयंतगिरिवर्तिनि । खेटवायुसरस्वत्यो रति कामः शरीरजां ॥४॥ षोडशेष्वपि चैतेषु लाभस्थानेषु मन्मथं । लब्धानेकमहालाभं दृष्ट्वा विस्मितमानसाः ॥४४॥ ज्ञात्वा पुण्यस्य माहात्म्यं कुमाराः संवरादयः। संशित्वा मदनेनामा निजं नगरमाययुः ।।४५॥ लब्धं दिव्यं रथं शुभ्रषयूँढमधिष्ठितः । चापी पंचशरी छत्री ध्वजी दिव्यविभूषणी ॥४६|| मनो हरन्नरस्त्रीणां मदनो मदनेषुभिः । मेघकूटं प्रविष्टोऽसौ कुमारशतवेष्टितः ॥४७॥ सप्रणामस्ततो दृष्ट्वा प्रद्युम्नः कृष्णसंचरं । धिष्ण्यं कनकमालायाः प्रस्थितः स रथे स्थितः॥४८॥ तथा च स्थितनेपथ्यं नेत्रपथ्यं न दूरतः । दृष्ट्वा कनकमाला तं भावं कमपि संश्रिता॥४९॥ रथादुत्तीय विनतं संशित्वा घ्राय मस्तके । आसयित्वांतिके तं सा स्पर्शयन् मृदुपणिना ॥५०॥ गाढमाहोदयात्तस्यास्ततः परवशात्मनः । कर्षतो हृदयक्षाणी प्रवृत्ता दुर्मनोरथाः ।। ५१ ॥ स्वांगैरस्यागसंगं या लभेत शयने सकृत् । कामिनी भुवने सैका शेषास्त्वाकृतिमात्रकं ॥५२॥ रूपलावण्यसौभाग्यवैदग्ध्यं गुणगोचरं । कामा श्लेषस्य सौलभ्ये दौलभ्ये स्यात्तृणं तु मे ॥५३॥ इतिप्रवृत्तसंकल्पामसंभाविततन्मनाः । तां प्रणम्य सलब्धाशीः प्रद्युम्नः स्वगृहं गतः ॥ ५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org