________________
हरिवंशपुराणं ।
५६३
सप्तचत्वारिंशः सर्गः ।
शतानि तनयाः पंच कालसंवरभूभृतः । चिंतयंति ततोपायं मदनस्य समंततः ॥ २९ ॥ आशने शयने वस्त्रे तांबूलेऽशनपानके । नालं छलयितुं ते तं छलान्वेषणतत्पराः ॥३०॥ अन्यदा तु विनीतोसौ नीतो नीत्यानुकूलकैः । कुमारस्तैः कुमारौघैः सिद्धायतनगोपुरं ॥ ३१ ॥ नोदितस्तैः समारूढो गोपुराग्रं सवेगवान् । विद्याकोशं तिरीटं च लेभे तद्वासिनोऽमरात् ॥ ३२॥ प्रविष्टश्च पुनर्वेगान्महाकालगुहामसौ । खड़े सखेटकं लेभे छत्रचामरसंयुतं ||३३|| लेभे नागगुहायां च पादपीठं सुराद्वरं । नागशय्यासनं वीणां विद्यां प्रासादकारिणीं ॥ ३४ ॥ मकरध्वजमुत्तुंगं वाप्यां युद्धे जितात्सुरात् | अग्निकुंडेऽग्निसंशोध्यं वस्त्रयुग्ममवाप्य सः ||३५|| मेषाकृतिगिरौ लेभे कर्णकुंडलयोर्द्वयं । मौलिं चामृतमालां च पांडुके मर्कटामरात् ||३६|| विद्या करिवनं प्राप कवित्थवनदेवतः । वल्मीके क्षुरिकां चापि कवचं मुद्रिकादिकं ||३७|| शवपर्वते लेभे कटिसूत्रमुरच्छदं । कामः कटककेयूरकंठिकाभरणं शुभं ||३८|| शूकरासुरतः शंखं दिव्यं प्राप शरासनं । हारं सुरेंद्रजालं च मनोवेगाद्विकीलितात् ॥३९॥ मनोवेगरिपोर्लेभे वसंतखचरात्ततः । कन्यां नरेंद्रजालं च तयोः सख्यस्य कारकः ||४०|| चापं च कौसुमं प्रापदर्जुनो भवनाधिपात् । उन्मादमोह संतापमदशोककरान् शरान् ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org