SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ५६२ सप्तचत्वारिंशः सर्गः। यदुपांडववर्गौ तौ मेनाते मिलितौ मुदा । अपकारमपि त्यक्त्वा सूपकारं परैः कृतं ॥१६॥ ततः प्रासादवर्येषु पंच पंचसु विष्णुना । निरूपितेषु ते तस्थुः सर्वभोगप्रदायिषु ॥१७॥ ज्येष्ठो लक्ष्मीमती लेभे भीमः शेषवतीं ततः । सुभद्रामर्जुनः कन्यां कनिष्ठौ विजयां रतिं ॥१८॥ दशाहतनयास्तास्ते परिणीय यथाक्रमं । रेमिरेऽमृमिरिष्टाभिः पांडवास्त्रिदशोपमाः ॥१९॥ कथेयं कुरुवीरस्य कथिता ते समासतः । प्रद्युम्नस्याधुना वच्मि श्रृणु श्रेणिक चेष्टितं ॥२०॥ विजयागिरौ रम्ये प्रद्युम्नोऽसौ कलागुणैः । विधुवबंधुमुद्वार्धिं सहावर्धत वर्धयन् ॥२१॥ विद्याधरोचिता विद्या स विद्याधरपुत्रकः । वियद्यानादिका बाल्ये जग्राहाशु महोद्यमः ॥२२॥ बाल्यादारभ्य लावण्यरूपसौभाग्यपौरुषैः । सोऽरिमित्रनरस्त्रीणामस्त्रीभूतैर्मनोऽहरत् ॥२३॥ यौवनं स परिप्राप्तः प्राप्तसस्त्रिकौशलः । हृदयेषु युवा यूनां प्रहरन्नपि बल्लभः ॥२४॥ मन्मथा मदनः कामः कामदेवो मनोभवः । इत्यन्वर्थाभिधानः स नानंगो नंगनामकः ॥२५॥ युद्धे सिंहरथं जित्वा जितपंचशतात्मजं । कालसंवरभूपाय सकामोऽदर्शयत्कृती ॥२६॥ तादृशं तनयं दृष्ट्वा संतुष्टः कालसंवरः । मेने श्रेणीद्वयं दृसं वशीकृतमिवात्मनां ॥२७॥ महाराज्यपदोदारफलपुष्पं नृपोऽस्य सः । यौवराजमहापर्ट बबंध च विधानतः ॥२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy