________________
हरिवंशपुराणं ।
५६१
सप्तचत्वारिंशः सर्गः ।
संपूर्णावधयो गत्वा धर्मराजस्य ते युधि । सह दुर्योधनेनास्थुः सम्मता मुनयो यथा ॥३॥ ततः पूरितसर्वाशाः सर्वार्थामृतवर्षिणः । तेप्यनुष्पदमत्युच्चैः प्रावृषेण्या इवांबुदाः || ४ || तत्प्रासाद्यापि चुक्षोभ गांधारीय-शतं पुनः । नेयस्य जलवर्ग्यस्य सुप्रसादः कियच्चिरं ||५|| कृते दायादवर्गेण पूर्ववत्संधिदूषणे । प्रशमय्य तनून्भ्रातॄन् प्रागिवासौ युधिष्ठिरः ||६|| अनिच्छन् स्वच्छधीर्धीरः कृपावान् कौरवाहितं । मात्रा आत्रादिभिर्भूयः श्रितवान् दक्षिणां दिशं ॥ ७॥ स विंध्यवनमध्यास्य तपस्यंतं निजाश्रमे । दृष्ट्वा विदुरमानम्य शशंस सानुजैः सह ||८|| कृतार्थं पूज्य ते जन्म संपरित्यज्य संपदः । स्थितोऽभियो जिनेद्रोक्ते मोक्षमार्गे महातपाः ॥ ९ ॥ विशुद्धं दर्शनं यत्र तत्त्वश्रद्धानलक्षणं । ज्ञानं सर्वार्थविद्योति चारित्रमनवद्यकं ॥ १० ॥
व्रत गुप्तिसमित्यक्ष कषायजयसंयमाः । यत्र मार्गे स्थितास्तत्र सिध्यति त्वादृशोऽचिरात् ॥ ११ ॥ इति मार्गस्तुतिं कृत्वा तं च स्तुत्वा कृतानतिः । द्वारिकां ज्ञातिभिर्ज्ञातः संविवेश सहानुजैः ॥१२॥ उत्सवः परमो जातः स्वसृस्वस्त्रीय संगमे । समुद्रविजयादीनां दशानां चिरदर्शिनां ॥ १३ ॥ नेमीशहरिरामादिदशार्हसुत सुंदराः । अंतःपुराणि सर्वाणि प्रजाश्च तुतुषुस्तदा ||१४|| यथाक्रममशेषाणां दर्शने दर्शनोत्सवे । जाते परस्परं तेषां स्वजनानां सुखावहे ||१५||
३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org