________________
हरिवंशपुराणं।
५६०
सप्तचत्वारिंशः सर्गः। माता वसा च तनुजा प्रियकामिनीत्वं मातृस्वसृत्वदुहितृत्वमुपैति पन्नी ।
संसारचक्रपरिवर्तिनि जीवलोके ही संकरव्यतिकरौ नियतौ भवेतां ।। ५८ ॥ वैचित्र्यमेतदवगम्य भवस्य भव्या वैराग्यमेत्य सुखतो महतोप्यमुष्य ।
संसारकारणनिवृत्तधियः सुवृत्ता मोक्षार्थमेव महता तपसा यतंतां ॥ ५९ ॥ इत्यादि तस्य वचनं मुनिकीचकस्य श्रुत्वा सुरः सुरवधूभिरमा तदानीं।
सम्यक्त्वरत्नवरभूषणभूषितात्मा नत्वा गुरुं धृतियुतीतरधादनांते ॥६॥ संपूज्यमानचरणो नृसुरासुरोधैः कृत्वा तपो द्विविधमंतरमूढधीर्यः।
लोके प्रकाश्य जिनमार्गमरर्गलं सं-प्राप्तं परं पदमनत्ययमात्मशुद्धया ॥ ६१ ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ कीचकनिर्वाणगमनो नाम षट्चत्वारिंशः सर्गः ।
सप्तचत्वारिंशः सर्गः। कीचकानुजवृत्तांते गोग्रहे तदनंतरे । वृत्ते भीमार्जुनोग्राग्निमस्मितारिवनांतरे ॥१॥ अभिननिजमर्यादाः मिजदुश्शासनांतराः। पांडवाः पांडुभवने संहता सुचना इव ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org