________________
हरिवंशपुराणं ।
५५९
पट्चत्वारिंशः सर्गः । गुप्तंद्रियकलापस्य मनःशुद्धिमुपेयुषः । साधोस्तस्य समुत्पन्नमवधिज्ञानलोचनं ॥४५॥ उपसंहृतयोगं तं प्रणम्यासौ सुरस्ततः । मुनिमक्षमयन्नाथ क्षमस्वेति पुनः पुनः ॥४६॥ पुनः प्रणम्य पप्रच्छ द्रौपदीमोहकारणं । कारणेन विना न स्यात्तादृग्मोहसमुद्भवः ॥४७॥ कतिचित्पूर्वजन्मानि द्रौपद्याः स्वस्य चेत्यसौ । कीचकाख्योवदद्योगी यक्षाय प्रणतात्मने ॥४८॥ तरंगिणीसरितीरे वेगवत्याश्च संगमे । म्लेच्छोहमभवद्रौद्रः क्षुद्रः क्षुद्रासुमद्रिपुः ॥४९॥ साधुदर्शनतः शांतः प्रापमार्यमनुष्यतां । धनदेवः पिता चात्र माता मे सुकुमारिका ॥५०॥ कुमारदेवसंज्ञोहं मात्रा च मम सुव्रतः । मारितः साधुराहारं दत्वा विषविमिश्रितं ॥५१॥ प्रविश्य नरकं पापा दुःखं साधुवधोद्भवं । अनुभूय पुनस्तिर्यग्नारकेष्वटतिस्म सा ॥५२॥ अव्रतोहमपि भ्रांत्वा संसार तीव्रवेदनं । मातरिश्वतया वृत्तो नुन्नोंहोमातरिश्वभिः ॥५३॥ सितेन तापसेनांते जनितो मधुसंज्ञकः । तापस्यां मृगशृंगिण्यां प्रवृद्धस्तापसाश्रमे ॥५४॥ मुनेर्विनयदत्तस्य दानमाहात्म्यदर्शनात् । प्रव्रज्य स्वर्गमारुह्य जातोहं कीचकश्युतः ॥५५॥ चिरं पर्यट्य संसारसुदुःखं सुकुमारिका । मानुषी दुर्भगी भूता भूताभूतासुखावहा ॥५६॥ सा चानुमतिका नाम्ना सनिदानतपोयुता । जातेयं द्रौपदी तेन मोहोऽस्यां मे महानभूत् ॥५७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org