________________
हरिवंशपुराण
५५०
षट्चत्वारिंशः समः। प्रत्याख्यातस्य धृष्टस्य तृणीभूतस्य तस्य सा । निबंध भीमसेनाय शैलंधी तं न्यवेदयत् ॥३२॥ ततः कुपितचित्तोऽसौ शैलंधीवेषभूदली । प्रदोषे कृतसंकेतमेकांते मदनातुरं ॥३३॥ वारिबंधमिवायातं स्पांध गंधवारणं । कंठे जग्राह बाहुभ्यां स्पर्शामीलितलोचनां ॥३४॥ भूमौ निपात्य पादाभ्यामुरस्याक्रम्य कामिनं । पिपेष मुष्टिनिर्घातैर्निर्घातैरिव भूधरं ॥३५॥ . तथा तस्य तदा श्रद्धां प्रपूर्य परयोषिति । अमुचद् व्रज पापेति दयमानो महामनाः ॥३६॥ महावैराग्यसंपन्नस्ततो विषयहेतुकं । प्राबजत्कीचकः श्रित्वा मुनींद्ररतिवर्धनं ॥३७॥ अनुप्रेक्षाभिरात्मानं भावयन् भावशुद्धितः । रत्नत्रयमसौ शुद्धं श्रुतवान् कर्तुमुद्यतः ॥३८॥ कीचकं शतसंख्यास्ते भ्रातरो भ्रांतचेतसः । अदृष्टा कुपिता दृष्टाश्चितकाग्निमचिन्वत ॥३९॥ तत्र विक्षिप्सवः पापाः शैलंधी बलशालिनः । क्षिप्तास्ते तत्र भीमेन भस्मसाद्भावमागताः ॥४०॥ एकेनैवाह्वयं नीतास्ते भीमेन मदोद्धताः । बहवोऽपि हि हिंस्यंते सिंहनैकेन दंतिनः ॥४१॥ अथासौ कीचकः साधुरेकांतोद्यानमध्यगः । पर्यकासनयोगस्थो यक्षेणैक्षि कदाचन ॥४२॥ तस्य चित्तपरीक्षार्थ द्रौपदीवेषमाश्रितः । निशीथेऽदर्शयद्रूपमात्मनो मदनालसं ॥४३॥ साधुना वधिरेणैव रम्यालापश्रुतौ स्थितं । रूपं दृष्टिविलासाभ्यामधेनैव मनोहरं ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org