SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ५५७ षट्चत्वारिंशः सर्गः । चैत्यालया जिनेंद्राणां यत्र चंद्रार्कभासुराः । कारिता रामदेवेन संभाति शतशो गिरौ ॥ १९ ॥ नानादेशागतैर्भव्यैर्वद्यते या दिने दिने । वंदितास्ता जिनेंद्राणां प्रतिमाः पांडुनंदनैः ||२०|| चित्रं चिक्रीड तत्राद्रौ द्रौपद्या सहितोर्जुनः । लतागृहेषु रम्येषु सीतयेव रघूत्तमः ॥ २१ ॥ अविज्ञातसुखच्छेदा स्वेच्छया विहृति श्रिताः । निन्युरेकादशाब्दानि धन्यास्ते मान्यचेष्टिताः॥ २२ ॥ अतः परं पुनः प्राप्ता विराटपुटभेदनं । विराटो यत्र राजासौ भार्या यस्य सुदर्शना ||२३|| अव्यक्ताः पांडवास्तत्र द्रौपदी च विचक्षणा । विराटनगरे तस्थुर्विराटस्यातिपूजिताः ||२४|| यथायथं विनोदेन तत्र संवसतां सतां । प्रयाति सुखिनां काले प्रमादरहितात्मनां ||२५|| चूलिका नगरी राजा चूलिकस्तस्य कामिनी । विकचा विकचाब्जास्या शतपुत्रपवित्रिता ॥ २६ ॥ कीचकः प्रथमस्तेषां प्रथमथंडकर्मणां । रूपयौवनविज्ञानं शौर्यद्रव्यमदाविलः ||२७|| विराटनगरं जातु स्वसारं ससुदर्शनां । आगतो दृष्टुमत्रैतां दृष्टवान् द्रौपदीं सतीं ॥२८॥ गंधयुक्तिविशेषेण सुगंधीकृतदिङ्मुखां । रूपलावण्यसौभाग्यगुणपूरितविग्रहां ॥ २९ ॥ तस्यां दर्शनमात्रेण मानिनोऽपि मनो गतं । दैन्यमन्यत्र यातस्य तस्य तन्मयतां गतं ||३०|| अनेकोपाययोगैस्तामुपलोभयतामुना | स्वतोऽपि परतोप्यस्या नालाभि हृदये स्थितिः ॥ ३१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy