________________
५५६
हरिवंशपुराण।
षट्चत्वारिंशः सर्गः। अनुजातार्जुनं प्रेम्णा प्रमदेन च पूरिता । द्रौपदीदुमिव ज्योत्स्ना कृतकृष्णनिजस्थितिः ॥६॥ ततस्ते धैर्यसंपन्नाः सुवीयर्या नरकुंजराः । क्रमेण सहिताः प्राप्ता रम्यां कालांजलाटवीं ॥७॥ प्रकीर्णकासुरीसूनुः सुतारस्तत्र खेचरः । असुरोद्गीतनगरादागत्य रमते तदा ॥८॥ कांतया कुसुमावल्या रममाणं वनांतरे । किरातवेषिणं कांतं युक्तं शावरविद्यया ॥९॥ किरातवेषभृत्पत्न्या सह क्रीडन् यदृच्छया । ददर्श खेचरं चापी चापिनं स धनंजयः ॥१०॥ अकस्माच्च तयोर्जाते दर्शने सहसानयोः । बभूव विषमं युद्धं दिव्येषुच्छन्नदिङ्मुखं ॥११॥ भुजयुद्धे ततो लग्ने भुजेन दृढमुष्टिना । जघानोरसि तं पार्थः खचरं बलिनं बली ॥१२॥ पतिभिक्षा ययाचेऽसावर्जुनं कुसुमावली । मुक्तः स तं प्रणम्यागाद्रौप्याद्रदक्षिणां क्षितिं ।।१३।। गताः क्रमेण ते धीराः पुरं मेघदलाभिधं । सिंहो नरेश्वरो यत्र कांता कनकमेखला ॥१४॥ तनया कनकावर्ता तयोरत्यंतसुंदरी । मेषेभ्यालकयोश्चारुलक्ष्मीकांता शरीरजा ॥१५॥ ते चादेशवशात्कन्ये भीमो भीमं सवेषभृत् । भिक्षार्थमागतो लेभे पुण्यस्य किमु दुष्करं ॥१६॥ विश्रम्य तत्र ते सौम्या दिनानि कतिचित्सुखं । याताः क्रमेण पुन्नागा विषयं कौशलाभिधं ॥१७॥ स्थित्वा तत्रापि सौख्येन मासान्कतिपयानपि । प्राप्ता रामगिरि प्राग यो रामलक्ष्मणसेवितः॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org