________________
हरिवंशपुराणं।
५५३
पंचचत्वारिंशः सर्गः। भ्रमच्चक्रसमारूढो वाणं संधृत्य दक्षिणः । लक्ष्यं चंद्रकवेधाख्यं विव्याय नृपसन्निधौ ॥१३४॥ द्रौपदी च द्रुतं मालां कंधरेऽभ्येत्य वंधुरे । अकरोत्करपद्माभ्यामर्जुनस्य वरेच्छया ॥१३५॥ विप्रकीर्णा तदा माला सहसा सहवर्तिनां । पंचानामपि गात्रेषु चपलेन नमस्वता ॥१३६॥ ततश्चपललोकस्य तत्त्वमूढस्य कस्यचित् । वाचोदितोरुरित्युच्चैर्वृताः पंचानयेत्यपि ॥१३७॥ सबंधस्य सुवृक्षस्य तुंगस्य फलितस्य सा । पुष्पितेव लताभासीदर्जुनस्यांगमाश्रिता ॥१३८॥ ततः कुंत्याः समीपं सा धीरगा जीवबंधना । अग्रतः पश्यतां राज्ञां नीता नीतिविदां विदा॥१३९॥ सन्नह्य ते नृपाः केचिदनुयाता युयुत्सवः । निषिद्धा अपि यत्नेन द्रुपदेन नयैषिणा ॥१४०॥ अर्जुनेन च भीमेन धृष्टद्युम्नेन च त्रिभिः । धन्विभिरतो रुद्धा नाभितः पदमप्यदुः॥१४१॥ धृष्टद्युम्नरथस्थेन स्वनामांकः किरीटिना । द्रौणस्यांके शरः क्षिप्तः सर्वसंबंधवाचकः ॥१४२॥ द्रोणाश्वत्थामवीराभ्यां भीष्मेण विदुरेण च । वाचितः सर्वसंबंधः प्रमदं प्रपदौ परं ॥१४३॥ द्रुपदस्य सगोत्रस्य द्रौणादीनां च सौख्यतां । शंखवादिवनिर्घोषाज्जाता पांडवसंगमे ॥१४४॥ जातवांधवसंबंधे परमानंददायिनि । संवृत्या नंदिताः पंच तेऽमी दुर्योधनादिभिः ॥१४५॥ द्रौपदी दीपिकेवासौ स्नेहसंभारपूरिता । पाणिग्रहणयोगेन दिदीपेऽर्जुनधारिता ॥१४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org