________________
हरिवंशपुराणं ।
पंचत्वारिंशः सर्गः ।
विवाह मंगलं दृष्ट्वा द्रौपद्यर्जुनयोर्नृपाः । आयाताः पांडवैर्युक्ता स्थानं दुर्योधनोऽप्यगात् ॥ १४७॥ अर्धराज्यविभागेन ते हास्तिनपुरे पुनः । तस्थुर्दुर्योधनाद्याच पांडवाच यथायथं ॥१४८॥ आनाय्यानाय्य वृत्तोसौ ज्येष्ठ कन्याः पुरातनीः । विवाह्य सुखिताश्चक्रे भीमसेनो निजोचिताः ।। १४९ ॥ स्नुषाबुद्धिरभूत्तस्यां ज्येष्ठयोरर्जुनस्त्रियां । द्रौपद्यां यमलस्यापि मातरीवानुवर्तनं ॥ १५०॥ तस्याः श्वसुरबुद्धिस्तु पांडाविव तयोरभूत् । अर्जुनप्रेमसंरुद्ध मौचित्यं देवरद्वये || १५१ ॥ अत्यंत शुद्धवृत्तेषु योभ्याख्यानपरायणाः । तेषां तत्प्रभवं पापं को निवारयितुं क्षमः ||१५२|| सद्भूतस्यापि दोषस्य परकीयस्य भाषणं । पापहेतुरमोघः स्यादसद्भूतस्य किं पुनः || १५३॥ प्राकृतानामपि प्रीत्या समानधनता धने । न स्त्रीचरित्रलोकेषु प्रसिद्धानां किमुच्यते || १५४ || महापुरुष कोटीस्थकूटदोषविभाषिणां । असतां कथमायाति न जिहा शतखंडतां ।। १५५ ।। बक्ता श्रोता च पापस्य यन्नात्र फलमश्रुते । तदमोघममुत्रास्य वृद्धयर्थमिति बुद्धयतां ॥ १५६ ॥ वक्तुः श्रोतुच सद्बुध्या यथा पुण्यमयी श्रुतिः । श्रेयसे विपरीताय तथा पापमयी श्रुतिः ॥१५७॥ त्यजत वाचमसत्यमलोद्धतां भजत सत्यवचो निरवद्यतां ।
निजयशो विशदाशगुणोद्यतां विजमिनीं त्विह विश्वविदोद्यतां ॥ १५८ ॥
Jain Education International
५५४
For Private & Personal Use Only
www.jainelibrary.org